Click on words to see what they mean.

लोमश उवाच ।ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु ।श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥ १ ॥
स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् ।विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥ २ ॥
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः ।प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ॥ ३ ॥
अगस्त्य उवाच ।वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥ ४ ॥
लोमश उवाच ।तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् ।अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ॥ ५ ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ ६ ॥
स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः ।स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥ ७ ॥
तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् ।अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ॥ ८ ॥
अगस्त्य उवाच ।वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥ ९ ॥
लोमश उवाच ।तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् ।ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ॥ १० ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ ११ ॥
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् ।अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ॥ १२ ॥
त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि ।अभिगम्य महाराज विषयान्ते सवाहनः ॥ १३ ॥
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः ।समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ॥ १४ ॥
अगस्त्य उवाच ।वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते ।यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ १५ ॥
लोमश उवाच ।तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् ।अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ॥ १६ ॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः ।सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥ १७ ॥
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् ।इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥ १८ ॥
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि ।तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ॥ १९ ॥
तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् ।ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥ २० ॥
« »