Click on words to see what they mean.

लोमश उवाच ।यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति ।तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ १ ॥
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् ।वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ २ ॥
एवमुक्तः स मुनिना महीपालो विचेतनः ।प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ॥ ३ ॥
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः ।महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ ४ ॥
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् ।लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ॥ ५ ॥
न मत्कृते महीपाल पीडामभ्येतुमर्हसि ।प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ ६ ॥
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने ।लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ॥ ७ ॥
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत ।महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥ ८ ॥
ततः सा दर्शनीयानि महार्हाणि तनूनि च ।समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ ९ ॥
ततश्चीराणि जग्राह वल्कलान्यजिनानि च ।समानव्रतचर्या च बभूवायतलोचना ॥ १० ॥
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः ।उग्रमातिष्ठत तपः सह पत्न्यानुकूलया ॥ ११ ॥
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा ।अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ॥ १२ ॥
ततो बहुतिथे काले लोपामुद्रां विशां पते ।तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ १३ ॥
स तस्याः परिचारेण शौचेन च दमेन च ।श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ १४ ॥
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी ।तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ १५ ॥
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत ।या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ १६ ॥
यथा पितुर्गृहे विप्र प्रासादे शयनं मम ।तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ १७ ॥
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् ।उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ १८ ॥
अगस्त्य उवाच ।न वै धनानि विद्यन्ते लोपामुद्रे तथा मम ।यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ १९ ॥
लोपामुद्रोवाच ।ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर ।क्षणेन जीवलोके यद्वसु किंचन विद्यते ॥ २० ॥
अगस्त्य उवाच ।एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे ।यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥ २१ ॥
लोपामुद्रोवाच ।अल्पावशिष्टः कालोऽयमृतौ मम तपोधन ।न चान्यथाहमिच्छामि त्वामुपैतुं कथंचन ॥ २२ ॥
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन ।एतत्तु मे यथाकामं संपादयितुमर्हसि ॥ २३ ॥
अगस्त्य उवाच ।यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः ।हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ॥ २४ ॥
« »