Click on words to see what they mean.

वैशंपायन उवाच ।एवं संभाषमाणे तु धौम्ये कौरवनन्दन ।लोमशः सुमहातेजा ऋषिस्तत्राजगाम ह ॥ १ ॥
तं पाण्डवाग्रजो राजा सगणो ब्राह्मणाश्च ते ।उदतिष्ठन्महाभागं दिवि शक्रमिवामराः ॥ २ ॥
तमभ्यर्च्य यथान्यायं धर्मराजो युधिष्ठिरः ।पप्रच्छागमने हेतुमटने च प्रयोजनम् ॥ ३ ॥
स पृष्टः पाण्डुपुत्रेण प्रीयमाणो महामनाः ।उवाच श्लक्ष्णया वाचा हर्षयन्निव पाण्डवान् ॥ ४ ॥
संचरन्नस्मि कौन्तेय सर्वलोकान्यदृच्छया ।गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम् ॥ ५ ॥
तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।शक्रस्यार्धासनगतं तत्र मे विस्मयो महान् ।आसीत्पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम् ॥ ६ ॥
आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति ।सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ॥ ७ ॥
वचनात्पुरुहूतस्य पार्थस्य च महात्मनः ।आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ॥ ८ ॥
भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ।यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ॥ ९ ॥
तदस्त्रमाप्तं पार्थेन रुद्रादप्रतिमं महत् ।यत्तद्ब्रह्मशिरो नाम तपसा रुद्रमागतम् ॥ १० ॥
अमृतादुत्थितं रौद्रं तल्लब्धं सव्यसाचिना ।तत्समन्त्रं ससंहारं सप्रायश्चित्तमङ्गलम् ॥ ११ ॥
वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर ।यमात्कुबेराद्वरुणादिन्द्राच्च कुरुनन्दन ।अस्त्राण्यधीतवान्पार्थो दिव्यान्यमितविक्रमः ॥ १२ ॥
विश्वावसोश्च तनयाद्गीतं नृत्तं च साम च ।वादित्रं च यथान्यायं प्रत्यविन्दद्यथाविधि ॥ १३ ॥
एवं कृतास्त्रः कौन्तेयो गान्धर्वं वेदमाप्तवान् ।सुखं वसति बीभत्सुरनुजस्यानुजस्तव ॥ १४ ॥
यदर्थं मां सुरश्रेष्ठ इदं वचनमब्रवीत् ।तच्च ते कथयिष्यामि युधिष्ठिर निबोध मे ॥ १५ ॥
भवान्मनुष्यलोकाय गमिष्यति न संशयः ।ब्रूयाद्युधिष्ठिरं तत्र वचनान्मे द्विजोत्तम ॥ १६ ॥
आगमिष्यति ते भ्राता कृतास्त्रः क्षिप्रमर्जुनः ।सुरकार्यं महत्कृत्वा यदाशक्यं दिवौकसैः ॥ १७ ॥
तपसा तु त्वमात्मानं भ्रातृभिः सह योजय ।तपसो हि परं नास्ति तपसा विन्दते महत् ॥ १८ ॥
अहं च कर्णं जानामि यथावद्भरतर्षभ ।न स पार्थस्य संग्रामे कलामर्हति षोडशीम् ॥ १९ ॥
यच्चापि ते भयं तस्मान्मनसिस्थमरिंदम ।तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥ २० ॥
यच्च ते मानसं वीर तीर्थयात्रामिमां प्रति ।तच्च ते लोमशः सर्वं कथयिष्यत्यसंशयम् ॥ २१ ॥
यच्च किंचित्तपोयुक्तं फलं तीर्थेषु भारत ।महर्षिरेष यद्ब्रूयात्तच्छ्रद्धेयमनन्यथा ॥ २२ ॥
« »