Click on words to see what they mean.

वैशंपायन उवाच ।श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् ।धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ १ ॥
स सौबलं समानाय्य कर्णदुःशासनावपि ।अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥ २ ॥
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः ।विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ ३ ॥
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति ।पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ ४ ॥
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन ।पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ॥ ५ ॥
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् ।करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ ६ ॥
शकुनिरुवाच ।किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते ।गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ ७ ॥
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ ।पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥ ८ ॥
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् ।निरस्य समयं भूयः पणोऽस्माकं भविष्यति ॥ ९ ॥
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः ।छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ॥ १० ॥
दुःशासन उवाच ।एवमेतन्महाप्राज्ञ यथा वदसि मातुल ।नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ॥ ११ ॥
कर्ण उवाच ।काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् ।ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ॥ १२ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ १३ ॥
उपलभ्य ततः कर्णो विवृत्य नयने शुभे ।रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ॥ १४ ॥
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना ।अहो मम मतं यत्तन्निबोधत नराधिपाः ॥ १५ ॥
प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः ।न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ॥ १६ ॥
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः ।गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ १७ ॥
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् ।निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ १८ ॥
यावदेव परिद्यूना यावच्छोकपरायणाः ।यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः ।बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ॥ २० ॥
एवमुक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक्पृथक् ।निर्ययुः पाण्डवान्हन्तुं संघशः कृतनिश्चयाः ॥ २१ ॥
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा ।आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ २२ ॥
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः ।प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ॥ २३ ॥
« »