Click on words to see what they mean.

वैशंपायन उवाच ।गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति ।धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥ १ ॥
स सभाद्वारमागम्य विदुरस्मारमोहितः ।समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ॥ २ ॥
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात् ।समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥ ३ ॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः ।तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥ ४ ॥
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै ।इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ॥ ५ ॥
पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितः ।भ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् ॥ ६ ॥
गच्छ संजय जानीहि भ्रातरं विदुरं मम ।यदि जीवति रोषेण मया पापेन निर्धुतः ॥ ७ ॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन ।व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ॥ ८ ॥
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् ।न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय ॥ ९ ॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च ।संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥ १० ॥
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः ।रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ ११ ॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः ।भ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् ॥ १२ ॥
युधिष्ठिरमथाभ्येत्य पूजयामास संजयः ।भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ॥ १३ ॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः ।शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ १४ ॥
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः ।तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥ १५ ॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् ।नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ॥ १६ ॥
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः ।युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ १७ ॥
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् ।दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ १८ ॥
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ ।प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥ १९ ॥
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह ।क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥ २० ॥
विदुर उवाच ।क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् ।तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥ २१ ॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः ।दीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥ २२ ॥
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव ।दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ॥ २३ ॥
वैशंपायन उवाच ।अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती ।विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ २४ ॥
« »