Click on words to see what they mean.

व्यास उवाच ।धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम ।वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ॥ १ ॥
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् ।निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ॥ २ ॥
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे ।विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥ ३ ॥
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः ।पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥ ४ ॥
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥ ५ ॥
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ ६ ॥
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ ७ ॥
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत ।उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ॥ ८ ॥
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः ।पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ ९ ॥
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः ।यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ॥ १० ॥
अथ वा जायमानस्य यच्छीलमनुजायते ।श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ ११ ॥
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा ।भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥ १२ ॥
« »