Click on words to see what they mean.

बृहदश्व उवाच ।स नदीः पर्वतांश्चैव वनानि च सरांसि च ।अचिरेणातिचक्राम खेचरः खे चरन्निव ॥ १ ॥
तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः ।उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः ॥ २ ॥
ततः स त्वरमाणस्तु पटे निपतिते तदा ।ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ ३ ॥
निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।वार्ष्णेयो यावदेतं मे पटमानयतामिति ॥ ४ ॥
नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ॥ ५ ॥
एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः ।आससाद वने राजन्फलवन्तं बिभीतकम् ॥ ६ ॥
तं दृष्ट्वा बाहुकं राजा त्वरमाणोऽभ्यभाषत ।ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥ ७ ॥
सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ ८ ॥
वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।पतितानि च यान्यत्र तत्रैकमधिकं शतम् ।एकपत्राधिकं पत्रं फलमेकं च बाहुक ॥ ९ ॥
पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः ।प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ १० ॥
ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् ।परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ ११ ॥
अथ ते गणिते राजन्विद्यते न परोक्षता ।प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ॥ १२ ॥
अहं हि नाभिजानामि भवेदेवं न वेति च ।संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ १३ ॥
तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ १४ ॥
प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् ।एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ १५ ॥
अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन ।त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि बाहुक ॥ १६ ॥
त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ॥ १७ ॥
कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक ।विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ॥ १८ ॥
अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम् ।ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ॥ १९ ॥
अकाम इव तं राजा गणयस्वेत्युवाच ह ।सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ २० ॥
ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥ २१ ॥
अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् ।श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ॥ २२ ॥
तमुवाच ततो राजा त्वरितो गमने तदा ।विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥ २३ ॥
बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥ २४ ॥
ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ॥ २५ ॥
यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् ।निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक ।एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥ २६ ॥
तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥ २७ ॥
कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥ २८ ॥
ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः ।तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥ २९ ॥
तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ ३० ॥
इन्द्रसेनस्य जननी कुपिता माशपत्पुरा ।यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ ३१ ॥
अवसं त्वयि राजेन्द्र सुदुःखमपराजित ।विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ ३२ ॥
ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ॥ ३३ ॥
एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ।कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥ ३४ ॥
ततो गतज्वरो राजा नैषधः परवीरहा ।संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत ॥ ३५ ॥
मुदा परमया युक्तस्तेजसा च परेण ह ।रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ।बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥ ३६ ॥
हयोत्तमानुत्पततो द्विजानिव पुनः पुनः ।नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥ ३७ ॥
विदर्भाभिमुखो राजा प्रययौ स महामनाः ।नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ॥ ३८ ॥
ततो गतज्वरो राजा नलोऽभूत्पृथिवीपते ।विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥ ३९ ॥
« »