Click on words to see what they mean.

बृहदश्व उवाच ।ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥ १ ॥
स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् ।नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥ २ ॥
ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः ।श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥ ३ ॥
दमयन्ती च शुश्राव रथघोषं नलस्य तम् ।यथा मेघस्य नदतो गम्भीरं जलदागमे ॥ ४ ॥
नलेन संगृहीतेषु पुरेव नलवाजिषु ।सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥ ५ ॥
प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः ।हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥ ६ ॥
ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा ।प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥ ७ ॥
दमयन्त्युवाच ।यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् ।मम ह्लादयते चेतो नल एष महीपतिः ॥ ८ ॥
अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥ ९ ॥
यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् ।प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥ १० ॥
यदि मां मेघनिर्घोषो नोपगच्छति नैषधः ।अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥ ११ ॥
यदि मां सिंहविक्रान्तो मत्तवारणवारणः ।नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥ १२ ॥
न स्मराम्यनृतं किंचिन्न स्मराम्यनुपाकृतम् ।न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥ १३ ॥
प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः ।रहोऽनीचानुवर्ती च क्लीबवन्मम नैषधः ॥ १४ ॥
गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥ १५ ॥
बृहदश्व उवाच ।एवं विलपमाना सा नष्टसंज्ञेव भारत ।आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥ १६ ॥
ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥ १७ ॥
ततोऽवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥ १८ ॥
सोऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः ।उपतस्थे महाराज भीमं भीमपराक्रमम् ॥ १९ ॥
तं भीमः प्रतिजग्राह पूजया परया ततः ।अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥ २० ॥
किं कार्यं स्वागतं तेऽस्तु राज्ञा पृष्टश्च भारत ।नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥ २१ ॥
ऋतुपर्णोऽपि राजा स धीमान्सत्यपराक्रमः ।राजानं राजपुत्रं वा न स्म पश्यति कंचन ।नैव स्वयंवरकथां न च विप्रसमागमम् ॥ २२ ॥
ततो विगणयन्राजा मनसा कोसलाधिपः ।आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः ॥ २३ ॥
राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् ।अधिकं योजनशतं तस्यागमनकारणम् ॥ २४ ॥
ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् ।अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥ २५ ॥
नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।विश्राम्यतामिति वदन्क्लान्तोऽसीति पुनः पुनः ॥ २६ ॥
स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः ।राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥ २७ ॥
ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे ।बाहुको रथमास्थाय रथशालामुपागमत् ॥ २८ ॥
स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः ।स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥ २९ ॥
दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् ।सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥ ३० ॥
चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः ।नलस्येव महानासीन्न च पश्यामि नैषधम् ॥ ३१ ॥
वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥ ३२ ॥
आहोस्विदृतुपर्णोऽपि यथा राजा नलस्तथा ।ततोऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥ ३३ ॥
एवं वितर्कयित्वा तु दमयन्ती विशां पते ।दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥ ३४ ॥
« »