Click on words to see what they mean.

बृहदश्व उवाच ।श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः ।सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ १ ॥
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् ।एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥ २ ॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ ३ ॥
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता ।अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥ ४ ॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी ।मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥ ५ ॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ।मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥ ६ ॥
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः ।यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ।ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ ७ ॥
इति निश्चित्य मनसा बाहुको दीनमानसः ।कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥ ८ ॥
प्रतिजानामि ते सत्यं गमिष्यसि नराधिप ।एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥ ९ ॥
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥ १० ॥
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः ।अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ ११ ॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ।शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥ १२ ॥
दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः ।किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥ १३ ॥
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥ १४ ॥
बाहुक उवाच ।एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥ १५ ॥
ऋतुपर्ण उवाच ।त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक ।यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥ १६ ॥
बृहदश्व उवाच ।ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।योजयामास कुशलो जवयुक्तान्रथे नरः ॥ १७ ॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ १८ ॥
ततो नरवरः श्रीमान्नलो राजा विशां पते ।सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ १९ ॥
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ २० ॥
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः ।समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥ २१ ॥
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥ २२ ॥
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ २३ ॥
किं नु स्यान्मातलिरयं देवराजस्य सारथिः ।तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥ २४ ॥
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित् ।मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥ २५ ॥
उताहोस्विद्भवेद्राजा नलः परपुरंजयः ।सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥ २६ ॥
अथ वा यां नलो वेद विद्यां तामेव बाहुकः ।तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥ २७ ॥
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च ।नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥ २८ ॥
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् ।दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥ २९ ॥
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति ।प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥ ३० ॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ ३१ ॥
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् ।हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ ३२ ॥
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् ।चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ ३३ ॥
बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् ।परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह ॥ ३४ ॥
« »