Click on words to see what they mean.

बृहदश्व उवाच ।सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा ।अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ॥ १ ॥
अथ काले बहुतिथे वने महति दारुणे ।तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ॥ २ ॥
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ॥ ३ ॥
तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् ।सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ ४ ॥
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ॥ ५ ॥
अथार्धरात्रसमये निःशब्दस्तिमिते तदा ।सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ॥ ६ ॥
मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् ।सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥ ७ ॥
हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः ।वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ।केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ॥ ८ ॥
गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् ।भयार्तं धावमानं तत्परस्परहतं तदा ॥ ९ ॥
घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च ।तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥ १० ॥
अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा ।वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ।भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥ ११ ॥
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् ।योऽपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ।हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ॥ १२ ॥
प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् ।नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥ १३ ॥
यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता ।न ह्यदैवकृतं किंचिन्नराणामिह विद्यते ॥ १४ ॥
न च मे बालभावेऽपि किंचिद्व्यपकृतं कृतम् ।कर्मणा मनसा वाचा यदिदं दुःखमागतम् ॥ १५ ॥
मन्ये स्वयंवरकृते लोकपालाः समागताः ।प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ १६ ॥
एवमादीनि दुःखानि सा विलप्य वराङ्गना ।हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ।अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ १७ ॥
गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् ।सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ।वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥ १८ ॥
तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् ।उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ १९ ॥
प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा ।अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ॥ २० ॥
सा तैः परिवृतागच्छत्समीपं राजवेश्मनः ।तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ॥ २१ ॥
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ २२ ॥
एवमप्यसुखाविष्टा बिभर्षि परमं वपुः ।भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥ २३ ॥
न हि ते मानुषं रूपं भूषणैरपि वर्जितम् ।असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ २४ ॥
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् ।मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥ २५ ॥
सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥ २६ ॥
असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः ।भर्तारमपि तं वीरं छायेवानपगा सदा ॥ २७ ॥
तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने ।द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ॥ २८ ॥
तमेकवसनं वीरमुन्मत्तमिव विह्वलम् ।आश्वासयन्ती भर्तारमहमन्वगमं वनम् ॥ २९ ॥
स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे ।क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ॥ ३० ॥
तमेकवसनं नग्नमुन्मत्तं गतचेतसम् ।अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥ ३१ ॥
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।वाससोऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥ ३२ ॥
तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः ।न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥ ३३ ॥
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ॥ ३४ ॥
वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते ।मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ ३५ ॥
अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः ।इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥ ३६ ॥
राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥ ३७ ॥
उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।न चाहं पुरुषानन्यान्संभाषेयं कथंचन ॥ ३८ ॥
प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ॥ ३९ ॥
यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् ।अतोऽन्यथा न मे वासो वर्तते हृदये क्वचित् ॥ ४० ॥
तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् ।सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥ ४१ ॥
एवमुक्त्वा ततो भैमीं राजमाता विशां पते ।उवाचेदं दुहितरं सुनन्दां नाम भारत ॥ ४२ ॥
सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् ।एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ॥ ४३ ॥
« »