Click on words to see what they mean.

बृहदश्व उवाच ।सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ १ ॥
सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् ।नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ॥ २ ॥
शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः ।अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः ॥ ३ ॥
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् ।काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ॥ ४ ॥
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् ।प्रियालतालखर्जूरहरीतकबिभीतकैः ॥ ५ ॥
नानाधातुशतैर्नद्धान्विविधानपि चाचलान् ।निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः ।नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ॥ ६ ॥
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ।पल्वलानि तडागानि गिरिकूटानि सर्वशः ।सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ॥ ७ ॥
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ ८ ॥
तेजसा यशसा स्थित्या श्रिया च परया युता ।वैदर्भी विचरत्येका नलमन्वेषती तदा ॥ ९ ॥
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ।दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ १० ॥
विदर्भतनया राजन्विललाप सुदुःखिता ।भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ॥ ११ ॥
दमयन्त्युवाच ।सिंहोरस्क महाबाहो निषधानां जनाधिप ।क्व नु राजन्गतोऽसीह त्यक्त्वा मां निर्जने वने ॥ १२ ॥
अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः ।कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ १३ ॥
यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते ।कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥ १४ ॥
यथोक्तं विहगैर्हंसैः समीपे तव भूमिप ।मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ १५ ॥
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ॥ १६ ॥
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर ।उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥ १७ ॥
हा वीर ननु नामाहमिष्टा किल तवानघ ।अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥ १८ ॥
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः ।अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ १९ ॥
न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा ।तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥ २० ॥
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप ।ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥ २१ ॥
कृशां दीनां विवर्णां च मलिनां वसुधाधिप ।वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ २२ ॥
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।न मानयसि मानार्ह रुदतीमरिकर्शन ॥ २३ ॥
महाराज महारण्ये मामिहैकाकिनीं सतीम् ।आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ २४ ॥
कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् ।नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम ।वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥ २५ ॥
शयानमुपविष्टं वा स्थितं वा निषधाधिप ।प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ॥ २६ ॥
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता ।कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः ॥ २७ ॥
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नलम् ।अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ २८ ॥
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् ।अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ २९ ॥
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः ।शार्दूलोऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता ॥ ३० ॥
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः ।विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ ३१ ॥
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः ।पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ।आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ॥ ३२ ॥
अथ वारण्यनृपते नलं यदि न शंससि ।मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ॥ ३३ ॥
श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् ।यात्येतां मृष्टसलिलामापगां सागरंगमाम् ॥ ३४ ॥
इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः ।विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ ३५ ॥
नानाधातुसमाकीर्णं विविधोपलभूषितम् ।अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥ ३६ ॥
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् ।पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ ३७ ॥
किंशुकाशोकबकुलपुंनागैरुपशोभितम् ।सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम् ।गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥ ३८ ॥
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत ।शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥ ३९ ॥
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् ।राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥ ४० ॥
राजा विदर्भाधिपतिः पिता मम महारथः ।भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ ४१ ॥
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् ।आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ ४२ ॥
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः ।शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ॥ ४३ ॥
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः ।तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ ४४ ॥
निषधेषु महाशैल श्वशुरो मे नृपोत्तमः ।सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ ४५ ॥
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः ।क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥ ४६ ॥
नलो नामारिदमनः पुण्यश्लोक इति श्रुतः ।ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ ४७ ॥
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता ।तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ ४८ ॥
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् ।अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ॥ ४९ ॥
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः ।कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥ ५० ॥
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः ।विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः ।निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ ५१ ॥
किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् ।गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ॥ ५२ ॥
वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते ।यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥ ५३ ॥
कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् ।श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥ ५४ ॥
वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः ।आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ॥ ५५ ॥
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ ५६ ॥
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना ।तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥ ५७ ॥
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् ।नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ ५८ ॥
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च ।जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ ५९ ॥
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः ।तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ ६० ॥
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् ।शाखामृगगणैश्चैव तापसैश्च समन्वितम् ॥ ६१ ॥
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ।वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥ ६२ ॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥ ६३ ॥
साभिवाद्य तपोवृद्धान्विनयावनता स्थिता ।स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ॥ ६४ ॥
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः ।आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥ ६५ ॥
तानुवाच वरारोहा कच्चिद्भगवतामिह ।तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः ।कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥ ६६ ॥
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ।ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥ ६७ ॥
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह ।विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥ ६८ ॥
अस्यारण्यस्य महती देवता वा महीभृतः ।अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ॥ ६९ ॥
साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता ।न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ॥ ७० ॥
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः ।विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ ७१ ॥
विदर्भेषु महीपालो भीमो नाम महाद्युतिः ।तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ ७२ ॥
निषधाधिपतिर्धीमान्नलो नाम महायशाः ।वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः ॥ ७३ ॥
देवताभ्यर्चनपरो द्विजातिजनवत्सलः ।गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥ ७४ ॥
सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः ।ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥ ७५ ॥
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ।मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥ ७६ ॥
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ।सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ ७७ ॥
स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः ।आहूय पृथिवीपालः सत्यधर्मपरायणः ।देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ ७८ ॥
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै ।दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥ ७९ ॥
सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥ ८० ॥
अन्वेषमाणा भर्तारं नलं रणविशारदम् ।महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ ८१ ॥
कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः ।भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥ ८२ ॥
यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् ।वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥ ८३ ॥
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥ ८४ ॥
को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥ ८५ ॥
एवं विलपतीमेकामरण्ये भीमनन्दिनीम् ।दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ ८६ ॥
उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ ८७ ॥
निषधानामधिपतिं नलं रिपुनिघातिनम् ।भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ ८८ ॥
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ॥ ८९ ॥
द्विषतां भयकर्तारं सुहृदां शोकनाशनम् ।पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ ९० ॥
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ॥ ९१ ॥
सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा ।दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ ९२ ॥
किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् ।क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ ९३ ॥
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता ।नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥ ९४ ॥
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥ ९५ ॥
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा ।विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ॥ ९६ ॥
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा ।पल्लवापीडितं हृद्यं विहंगैरनुनादितम् ॥ ९७ ॥
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे ।आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ॥ ९८ ॥
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन ।वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥ ९९ ॥
नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् ।निषधानामधिपतिं दृष्टवानसि मे प्रियम् ॥ १०० ॥
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ १०१ ॥
यथा विशोका गच्छेयमशोकनग तत्कुरु ।सत्यनामा भवाशोक मम शोकविनाशनात् ॥ १०२ ॥
एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह ।जगाम दारुणतरं देशं भैमी वराङ्गना ॥ १०३ ॥
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ १०४ ॥
कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् ।ददर्श सा भीमसुता पतिमन्वेषती तदा ॥ १०५ ॥
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् ॥ १०६ ॥
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ १०७ ॥
प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् ।कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ॥ १०८ ॥
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी ।उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥ १०९ ॥
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता ।कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥ ११० ॥
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः ।केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥ १११ ॥
प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे ।चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥ ११२ ॥
कासि कस्यासि कल्याणि किं वा मृगयसे वने ।त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥ ११३ ॥
वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः ।देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥ ११४ ॥
यक्षी वा राक्षसी वा त्वमुताहोऽसि वराङ्गना ।सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ॥ ११५ ॥
यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् ।तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ॥ ११६ ॥
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा ।प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता ।सार्थवाहं च सार्थं च जना ये चात्र केचन ॥ ११७ ॥
यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः ।मानुषीं मां विजानीत मनुजाधिपतेः सुताम् ।नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥ ११८ ॥
विदर्भराण्मम पिता भर्ता राजा च नैषधः ।नलो नाम महाभागस्तं मार्गाम्यपराजितम् ॥ ११९ ॥
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् ।नलं पार्थिवशार्दूलममित्रगणसूदनम् ॥ १२० ॥
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः ।सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥ १२१ ॥
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते ।मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ १२२ ॥
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि ।पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते ।तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ १२३ ॥
साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः ।क्व नु यास्यसि सार्थोऽयमेतदाख्यातुमर्हथ ॥ १२४ ॥
सार्थवाह उवाच ।सार्थोऽयं चेदिराजस्य सुबाहोः सत्यवादिनः ।क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ १२५ ॥
« »