Click on words to see what they mean.

बृहदश्व उवाच ।अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।अबुध्यत वरारोहा संत्रस्ता विजने वने ॥ १ ॥
सापश्यमाना भर्तारं दुःखशोकसमन्विता ।प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥ २ ॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥ ३ ॥
ननु नाम महाराज धर्मज्ञः सत्यवागसि ।कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ॥ ४ ॥
कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् ।विशेषतोऽनपकृते परेणापकृते सति ॥ ५ ॥
शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर ।यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ॥ ६ ॥
पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ ।भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥ ७ ॥
दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध ।आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ ८ ॥
नृशंसं बत राजेन्द्र यन्मामेवंगतामिह ।विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥ ९ ॥
न शोचाम्यहमात्मानं न चान्यदपि किंचन ।कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥ १० ॥
कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः ।सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ ११ ॥
ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ १२ ॥
मुहुरुत्पतते बाला मुहुः पतति विह्वला ।मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥ १३ ॥
सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला ।उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ॥ १४ ॥
यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः ।तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ १५ ॥
अपापचेतसं पापो य एवं कृतवान्नलम् ।तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ॥ १६ ॥
एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः ।अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ १७ ॥
उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः ।हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥ १८ ॥
तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् ।करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ॥ १९ ॥
सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् ।जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ २० ॥
सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता ।नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ २१ ॥
हा नाथ मामिह वने ग्रस्यमानामनाथवत् ।ग्राहेणानेन विपिने किमर्थं नाभिधावसि ॥ २२ ॥
कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध ।पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥ २३ ॥
श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध ।कः श्रमं राजशार्दूल नाशयिष्यति मानद ॥ २४ ॥
तामकस्मान्मृगव्याधो विचरन्गहने वने ।आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ॥ २५ ॥
तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् ।त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ॥ २६ ॥
मुखतः पातयामास शस्त्रेण निशितेन ह ।निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः ॥ २७ ॥
मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च ।समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥ २८ ॥
कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् ।कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ २९ ॥
दमयन्ती तथा तेन पृच्छ्यमाना विशां पते ।सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत ॥ ३० ॥
तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् ।सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥ ३१ ॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥ ३२ ॥
तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ ३३ ॥
दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता ।तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥ ३४ ॥
स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः ।दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ ३५ ॥
दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता ।अतीतवाक्पथे काले शशापैनं रुषा किल ॥ ३६ ॥
यथाहं नैषधादन्यं मनसापि न चिन्तये ।तथायं पततां क्षुद्रः परासुर्मृगजीवनः ॥ ३७ ॥
उक्तमात्रे तु वचने तया स मृगजीवनः ।व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ ३८ ॥
« »