Click on words to see what they mean.

वैशंपायन उवाच ।पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः ।प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥ १ ॥
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते ।ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥ २ ॥
ततः सरस्वतीकूले समेषु मरुधन्वसु ।काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ ३ ॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ ४ ॥
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः ।जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ ५ ॥
ततो यात्वा विदुरः काननं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन ।ददर्शासीनं धर्मराजं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ ६ ॥
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसंधः स राजा ।अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य ॥ ७ ॥
कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयाति ।कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥ ८ ॥
समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम् ।गाण्डीवे वा संशयिते कथंचिद्राज्यप्राप्तिः संशयिता भवेन्नः ॥ ९ ॥
तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव ।तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ॥ १० ॥
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम् ।स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥ ११ ॥
विदुर उवाच ।अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य ।एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ॥ १२ ॥
मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव ।तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ॥ १३ ॥
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः ।यथातुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम् ॥ १४ ॥
न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।ब्रुवन्न रुच्यै भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥ १५ ॥
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति ।यथा पर्णे पुष्करस्येव सिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥ १६ ॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यत्र श्रद्धा भारत तत्र याहि ।नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ॥ १७ ॥
सोऽहं त्यक्तो धृतराष्ट्रेण राजंस्त्वां शासितुमुपयातस्त्वरावान् ।तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ १८ ॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः ।सं वर्धयन्स्तोकमिवाग्निमात्मवान्स वै भुङ्क्ते पृथिवीमेक एव ॥ १९ ॥
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः ।सहायानामेष संग्रहणेऽभ्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥ २० ॥
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः ।आत्मा चैषामग्रतो नातिवर्तेदेवंवृत्तिर्वर्धते भूमिपालः ॥ २१ ॥
युधिष्ठिर उवाच ।एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः ।यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ २२ ॥
« »