Click on words to see what they mean.

वैशंपायन उवाच ।वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः ।धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा ॥ १ ॥
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम् ।समश्च त्वं संमतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि ॥ २ ॥
एवं गते विदुर यदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन् ।ते चाप्यस्मान्नोद्धरेयुः समूलान्न कामये तांश्च विनश्यमानान् ॥ ३ ॥
विदुर उवाच ।त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति ।धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥ ४ ॥
स वै धर्मो विप्रलुप्तः सभायां पापात्मभिः सौबलेयप्रधानैः ।आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसंधं सुतस्ते ॥ ५ ॥
एतस्य ते दुष्प्रणीतस्य राजञ्शेषस्याहं परिपश्याम्युपायम् ।यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु ॥ ६ ॥
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयासीत् ।एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत् ॥ ७ ॥
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः ।एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व ॥ ८ ॥
अथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः ।न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके ॥ ९ ॥
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम् ।येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति ॥ १० ॥
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम् ।पुत्रं त्यजेममहितं कुलस्येत्येतद्राजन्न च तत्त्वं चकर्थ ।इदानीं ते हितमुक्तं न चेत्त्वं कर्तासि राजन्परितप्तासि पश्चात् ॥ ११ ॥
यद्येतदेवमनुमन्ता सुतस्ते संप्रीयमाणः पाण्डवैरेकराज्यम् ।तापो न ते वै भविता प्रीतियोगात्त्वं चेन्न गृह्णासि सुतं सहायैः ।अथापरो भवति हि तं निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥ १२ ॥
अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन् ।ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥ १३ ॥
दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम् ।दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च ॥ १४ ॥
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य ।त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन् ॥ १५ ॥
धृतराष्ट्र उवाच ।एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च ।हितं तेषामहितं मामकानामेतत्सर्वं मम नोपैति चेतः ॥ १६ ॥
इदं त्विदानीं कुत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ ।तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥ १७ ॥
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः ।स्वं वै देहं परहेतोस्त्यजेति को नु ब्रूयात्समतामन्ववेक्षन् ॥ १८ ॥
स मा जिह्मं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकं धारयामि ।यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति ॥ १९ ॥
वैशंपायन उवाच ।एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन् ।नेदमस्तीत्यथ विदुरो भाषमाणः संप्राद्रवद्यत्र पार्था बभूवुः ॥ २० ॥
« »