Click on words to see what they mean.

बृहदश्व उवाच ।दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ॥ १ ॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा ।बभूव दमयन्ती तु निःश्वासपरमा तदा ॥ २ ॥
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ॥ ३ ॥
न नक्तं न दिवा शेते हा हेति वदती मुहुः ।तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥ ४ ॥
ततो विदर्भपतये दमयन्त्याः सखीगणः ।न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ॥ ५ ॥
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् ।चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ॥ ६ ॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ॥ ७ ॥
स संनिपातयामास महीपालान्विशां पते ।अनुभूयतामयं वीराः स्वयंवर इति प्रभो ॥ ८ ॥
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ॥ ९ ॥
हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् ।विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥ १० ॥
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ ।अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥ ११ ॥
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ ।देवराजस्य भवनं विविशाते सुपूजितौ ॥ १२ ॥
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् ।पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥ १३ ॥
नारद उवाच ।आवयोः कुशलं देव सर्वत्रगतमीश्वर ।लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥ १४ ॥
बृहदश्व उवाच ।नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा ।धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ १५ ॥
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः ।अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ १६ ॥
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् ।आगच्छतो महीपालानतिथीन्दयितान्मम ॥ १७ ॥
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत ।शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ॥ १८ ॥
विदर्भराजदुहिता दमयन्तीति विश्रुता ।रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ १९ ॥
तस्याः स्वयंवरः शक्र भविता नचिरादिव ।तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ २० ॥
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः ।काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ २१ ॥
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः ।आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ २२ ॥
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् ।श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ २३ ॥
ततः सर्वे महाराज सगणाः सहवाहनाः ।विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ॥ २४ ॥
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् ।अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ २५ ॥
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् ।साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥ २६ ॥
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् ।तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥ २७ ॥
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः ।अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ २८ ॥
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् ।अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ २९ ॥
« »