Click on words to see what they mean.

युधिष्ठिर उवाच ।वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥ १ ॥
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत ।ददामि देयमित्येव यजे यष्टव्यमित्युत ॥ २ ॥
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् ।गृहानावसता कृष्णे यथाशक्ति करोमि तत् ॥ ३ ॥
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ।धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ॥ ४ ॥
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥ ५ ॥
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः ।धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥ ६ ॥
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥ ७ ॥
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि ।स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥ ८ ॥
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः ।शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥ ९ ॥
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ॥ १० ॥
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ॥ ११ ॥
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।शापानुग्रहणे शक्तान्देवैरपि गरीयसः ॥ १२ ॥
एते हि धर्ममेवादौ वर्णयन्ति सदा मम ।कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥ १३ ॥
अतो नार्हसि कल्याणि धातारं धर्ममेव च ।रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥ १४ ॥
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ।आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ॥ १५ ॥
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम् ।एतावान्मन्यते बालो मोहमन्यत्र गच्छति ॥ १६ ॥
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते ।ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥ १७ ॥
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः ।कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥ १८ ॥
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥ १९ ॥
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् ।सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥ २० ॥
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः ।पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ २१ ॥
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।सैव नौः सागरस्येव वणिजः पारमृच्छतः ॥ २२ ॥
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः ।अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥ २३ ॥
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।विघातेनैव युज्येयुर्न चार्थं किंचिदाप्नुयुः ॥ २४ ॥
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च ।दानमार्जवमेतानि यदि स्युरफलानि वै ॥ २५ ॥
नाचरिष्यन्परे धर्मं परे परतरे च ये ।विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥ २६ ॥
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः ।ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥ २७ ॥
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे ।धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ॥ २८ ॥
स चायं सफलो धर्मो न धर्मोऽफल उच्यते ।दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ २९ ॥
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् ।वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥ ३० ॥
एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥ ३१ ॥
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः ।तेषां न धर्मजं किंचित्प्रेत्य शर्मास्ति कर्म वा ॥ ३२ ॥
कर्मणामुत पुण्यानां पापानां च फलोदयः ।प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥ ३३ ॥
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः ।रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ॥ ३४ ॥
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः ।प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥ ३५ ॥
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः ।यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ॥ ३६ ॥
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् ।ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ॥ ३७ ॥
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥ ३८ ॥
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः ।शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ॥ ३९ ॥
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् ।उत्तमं दैवतं कृष्णे मातिवोचः कथंचन ॥ ४० ॥
« »