Click on words to see what they mean.

युधिष्ठिर उवाच ।क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥ १ ॥
यो हि संहरते क्रोधं भावस्तस्य सुशोभने ।यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ।तस्याभावाय भवति क्रोधः परमदारुणः ॥ २ ॥
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥ ३ ॥
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥ ४ ॥
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥ ५ ॥
हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि ।आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥ ६ ॥
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥ ७ ॥
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् ।एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते ॥ ८ ॥
आत्मानं च परं चैव त्रायते महतो भयात् ।क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥ ९ ॥
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः ।बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥ १० ॥
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः ।तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥ ११ ॥
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति ।स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥ १२ ॥
तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥ १३ ॥
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥ १४ ॥
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता ।तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ।मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥ १५ ॥
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः ।न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥ १६ ॥
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते ।तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥ १७ ॥
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥ १८ ॥
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥ १९ ॥
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥ २० ॥
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ॥ २१ ॥
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते ।रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥ २२ ॥
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥ २३ ॥
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् ।अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥ २४ ॥
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः ।न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥ २५ ॥
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥ २६ ॥
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् ।प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥ २७ ॥
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥ २८ ॥
एवं संकुपिते लोके जन्म कृष्णे न विद्यते ।प्रजानां संधिमूलं हि जन्म विद्धि शुभानने ॥ २९ ॥
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे ।तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥ ३० ॥
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥ ३१ ॥
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने ।क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ॥ ३२ ॥
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा ।यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥ ३३ ॥
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥ ३४ ॥
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥ ३५ ॥
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ॥ ३६ ॥
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ॥ ३७ ॥
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥ ३८ ॥
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ॥ ३९ ॥
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ।भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥ ४० ॥
क्षन्तव्यमेव सततं पुरुषेण विजानता ।यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥ ४१ ॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥ ४२ ॥
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा ।तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ ४३ ॥
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥ ४४ ॥
पितामहः शांतनवः शमं संपूजयिष्यति ।आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।कृपश्च संजयश्चैव शममेव वदिष्यतः ॥ ४५ ॥
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ ४६ ॥
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥ ४७ ॥
कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥ ४८ ॥
सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥ ४९ ॥
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥ ५० ॥
« »