Click on words to see what they mean.

द्रौपद्युवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥ १ ॥
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् ।बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥ २ ॥
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत ।एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥ ३ ॥
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् ।करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ ४ ॥
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥ ५ ॥
प्रह्लाद उवाच ।न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।इति तात विजानीहि द्वयमेतदसंशयम् ॥ ६ ॥
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ॥ ७ ॥
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन ।तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥ ८ ॥
अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् ।आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥ ९ ॥
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च ।भोजनान्यथ पानानि सर्वोपकरणानि च ॥ १० ॥
आददीरन्नधिकृता यथाकाममचेतसः ।प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥ ११ ॥
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन ।अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥ १२ ॥
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि ।प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥ १३ ॥
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः ।दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥ १४ ॥
तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात् ।दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते ॥ १५ ॥
एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् ।अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥ १६ ॥
अस्थाने यदि वा स्थाने सततं रजसावृतः ।क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥ १७ ॥
मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः ।प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥ १८ ॥
सोऽवमानादर्थहानिमुपालम्भमनादरम् ।संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः ॥ १९ ॥
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् ।भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥ २० ॥
योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति ।तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ २१ ॥
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् ।अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ।तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ॥ २२ ॥
काले मृदुर्यो भवति काले भवति दारुणः ।स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ २३ ॥
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ॥ २४ ॥
पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि ।उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥ २५ ॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ २६ ॥
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ॥ २७ ॥
सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥ २८ ॥
अजानता भवेत्कश्चिदपराधः कृतो यदि ।क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ २९ ॥
मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् ।नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥ ३० ॥
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः ।नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते ।तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ॥ ३१ ॥
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ॥ ३२ ॥
द्रौपद्युवाच ।तदहं तेजसः कालं तव मन्ये नराधिप ।धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ ३३ ॥
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥ ३४ ॥
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः ।काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ॥ ३५ ॥
« »