Click on words to see what they mean.

मार्कण्डेय उवाच ।ततो विनिर्याय पुरात्कुम्भकर्णः सहानुगः ।अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतः स्थितम् ॥ १ ॥
तमभ्येत्याशु हरयः परिवार्य समन्ततः ।अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः ।करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥ २ ॥
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः ।नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन् ॥ ३ ॥
स ताड्यमानः प्रहसन्भक्षयामास वानरान् ।पनसं च गवाक्षं च वज्रबाहुं च वानरम् ॥ ४ ॥
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः ।उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥ ५ ॥
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् ।अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥ ६ ॥
ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः ।शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ॥ ७ ॥
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि ।बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ॥ ८ ॥
ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः ।दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥ ९ ॥
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा ।अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥ १० ॥
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम् ।प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ ११ ॥
स तस्य देहावरणं भित्त्वा देहं च सायकः ।जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥ १२ ॥
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम् ।कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः ।अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥ १३ ॥
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामुच्छ्रितौ करौ ।चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ १४ ॥
तानप्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान् ।क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥ १५ ॥
स बभूवातिकायश्च बहुपादशिरोभुजः ।तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम् ॥ १६ ॥
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे ।महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥ १७ ॥
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम् ।गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥ १८ ॥
तथा तान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ ।अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् ॥ १९ ॥
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ ।प्रतिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥ २० ॥
ततः सुतुमुलं युद्धमभवल्लोमहर्षणम् ।दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः ॥ २१ ॥
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत ।तौ चापि वीरौ संक्रुद्धावुभौ तौ समवर्षताम् ॥ २२ ॥
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः ।सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः ॥ २३ ॥
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः ।अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥ २४ ॥
नीलश्च महता ग्राव्णा दूषणावरजं हरिः ।प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥ २५ ॥
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः ।रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ २६ ॥
शतशो नैरृतान्वन्या जघ्नुर्वन्यांश्च नैरृताः ।नैरृतास्तत्र वध्यन्ते प्रायशो न तु वानराः ॥ २७ ॥
« »