Click on words to see what they mean.

मार्कण्डेय उवाच ।ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।गदया ताडयामास विनद्य रणकर्कशः ॥ १ ॥
स तयाभिहतो धीमान्गदया भीमवेगया ।नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥ २ ॥
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः ।अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति ॥ ३ ॥
पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया ।हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः ॥ ४ ॥
तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम् ।अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥ ५ ॥
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम् ।दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः ॥ ६ ॥
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान् ।निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः ॥ ७ ॥
तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम् ।वेगेन महता राजन्संन्यवर्तन्त सर्वशः ॥ ८ ॥
ततः शब्दो महानासीत्तुमुलो लोमहर्षणः ।रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ ९ ॥
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे ।धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥ १० ॥
तं राक्षसमहामात्रमापतन्तं सपत्नजित् ।तरसा प्रतिजग्राह हनूमान्पवनात्मजः ॥ ११ ॥
तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः ।जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव ॥ १२ ॥
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् ।कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः ॥ १३ ॥
ततस्तमतिकायेन साश्वं सरथसारथिम् ।धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः ॥ १४ ॥
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान् ॥ १५ ॥
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः ।राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् ॥ १६ ॥
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः ।सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥ १७ ॥
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः ॥ १८ ॥
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥ १९ ॥
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥ २० ॥
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः ।स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥ २१ ॥
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी ।य इमं दारुणं कालं न जानीषे महाभयम् ॥ २२ ॥
एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह ।अवमन्येह नः सर्वान्करोति कदनं महत् ॥ २३ ॥
मया ह्यपहृता भार्या सीता नामास्य जानकी ।तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे ॥ २४ ॥
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः ।तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन ॥ २५ ॥
स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर ।रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥ २६ ॥
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ ।तौ त्वां बलेन महता सहितावनुयास्यतः ॥ २७ ॥
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम् ।संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ २८ ॥
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ ।कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥ २९ ॥
« »