Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह ।विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत् ॥ १ ॥
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत ।सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम् ॥ २ ॥
एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते ।आज्ञापयामास नृपः क्रतुराजप्रवर्तनम् ॥ ३ ॥
ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः ।दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम् ॥ ४ ॥
प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः ।भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी ॥ ५ ॥
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान् ।पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च ।ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः ॥ ६ ॥
तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत् ।गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान् ।निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने ॥ ७ ॥
स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान् ।दुर्योधनो महाराज यजते नृपसत्तमः ॥ ८ ॥
स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः ।तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः ॥ ९ ॥
अहं तु प्रेषितो राजन्कौरवेण महात्मना ।आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः ।मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ ॥ १० ॥
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम् ।अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः ।यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः ॥ ११ ॥
वयमप्युपयास्यामो न त्विदानीं कथंचन ।समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम् ॥ १२ ॥
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत् ।तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः ॥ १३ ॥
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति ।वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः ॥ १४ ॥
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः ।आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः ॥ १५ ॥
शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम् ।दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत् ॥ १६ ॥
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः ।ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति ॥ १७ ॥
ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम् ।मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर ॥ १८ ॥
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः ।हर्षेण महता युक्तो विदुरं प्रत्यभाषत ॥ १९ ॥
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः ।तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम् ॥ २० ॥
विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम ।यथाप्रमाणतो विद्वान्पूजयामास धर्मवित् ॥ २१ ॥
भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः ।वासोभिर्विविधैश्चैव योजयामास हृष्टवत् ॥ २२ ॥
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम् ।सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु ।विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः ॥ २३ ॥
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः ।विवेश हास्तिनपुरं सहितः कर्णसौबलैः ॥ २४ ॥
« »