Click on words to see what they mean.

जनमेजय उवाच ।वसमानेषु पार्थेषु वने तस्मिन्महात्मसु ।धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम ॥ १ ॥
कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः ।भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ २ ॥
वैशंपायन उवाच ।एवं गतेषु पार्थेषु विसृष्टे च सुयोधने ।आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः ।भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः ॥ ३ ॥
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् ।गमनं मे न रुचितं तव तन्न कृतं च ते ॥ ४ ॥
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् ।मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ ५ ॥
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते ।सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ।क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ॥ ६ ॥
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् ।कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः ॥ ७ ॥
न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम ।धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ ८ ॥
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः ।संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये ॥ ९ ॥
एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः ।प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ १० ॥
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः ।अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥ ११ ॥
तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः ।लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ १२ ॥
गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः ।पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥ १३ ॥
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते ।कथं नु सुकृतं च स्यान्मन्त्रयामास भारत ॥ १४ ॥
कर्ण उवाच ।दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव ।श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम ॥ १५ ॥
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम ।तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥ १६ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः ।न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ ॥ १७ ॥
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ १८ ॥
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा ।मम स्पृहा समुत्पन्ना तां संपादय सूतज ॥ १९ ॥
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ २० ॥
आहूयन्तां द्विजवराः संभाराश्च यथाविधि ।संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥ २१ ॥
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः ।क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥ २२ ॥
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ २३ ॥
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते ।पुरोहितं समानाय्य इदं वचनमब्रवीत् ॥ २४ ॥
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् ।आहर त्वं मम कृते यथान्यायं यथाक्रमम् ॥ २५ ॥
स एवमुक्तो नृपतिमुवाच द्विजपुंगवः ।न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे ।आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥ २६ ॥
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव ।अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम ॥ २७ ॥
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो ।तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ २८ ॥
य इमे पृथिवीपालाः करदास्तव पार्थिव ।ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् ॥ २९ ॥
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम ।यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत ॥ ३० ॥
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः ।प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ ३१ ॥
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः ।एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम् ॥ ३२ ॥
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः ।अस्माकं रोचते चैव श्रेयश्च तव भारत ।अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव ॥ ३३ ॥
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत् ॥ ३४ ॥
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम् ॥ ३५ ॥
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम् ॥ ३६ ॥
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः ।यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ ३७ ॥
« »