Click on words to see what they mean.

वैशंपायन उवाच ।प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम् ।जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥ १ ॥
लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदा ।ऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ॥ २ ॥
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम् ।युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुः ।नैव तस्य क्रतोरेष कलामर्हति षोडशीम् ॥ ३ ॥
एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम् ।सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ॥ ४ ॥
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा ।क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥ ५ ॥
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ ।प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥ ६ ॥
अभिवाद्य ततः पादौ मातापित्रोर्विशां पते ।भीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ॥ ७ ॥
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलः ।निषसादासने मुख्ये भ्रातृभिः परिवारितः ॥ ८ ॥
तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचः ।दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥ ९ ॥
हतेषु युधि पार्थेषु राजसूये तथा त्वया ।आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥ १० ॥
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः ।सत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ॥ ११ ॥
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ ।राजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ॥ १२ ॥
एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारत ।राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥ १३ ॥
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः ।कदा तु तं क्रतुवरं राजसूयं महाधनम् ।निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥ १४ ॥
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर ।पादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥ १५ ॥
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः ।प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे ।विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ॥ १६ ॥
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान् ।प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः ।तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ॥ १७ ॥
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः ।चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥ १८ ॥
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता ।प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥ १९ ॥
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप ।अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम् ।अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः ॥ २० ॥
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः ।बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥ २१ ॥
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम् ।भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥ २२ ॥
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना ।दुर्योधनः प्रिये नित्यं वर्तमानो महीपतिः ।पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥ २३ ॥
भ्रातॄणां च प्रियं राजन्स चकार परंतपः ।निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥ २४ ॥
« »