Click on words to see what they mean.

दानवा ऊचुः ।भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह ।शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ १ ॥
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम् ।आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम् ॥ २ ॥
न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु ।मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ३ ॥
नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम् ।यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ ४ ॥
श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप ।निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि ॥ ५ ॥
पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात् ।पूर्वकायश्च सर्वस्ते निर्मितो वज्रसंचयैः ॥ ६ ॥
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ ।कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः ॥ ७ ॥
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम ।देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ ८ ॥
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः ।दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ ९ ॥
तदलं ते विषादेन भयं तव न विद्यते ।साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः ॥ १० ॥
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः ।यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ ११ ॥
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान् ।नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च ॥ १२ ॥
युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ।निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि ॥ १३ ॥
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ।हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः ।अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात् ॥ १४ ॥
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ।सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः ।श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ १५ ॥
तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः ।वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ १६ ॥
दैत्यरक्षोगणाश्चापि संभूताः क्षत्रयोनिषु ।योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ।गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा ॥ १७ ॥
यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम् ।तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥ १८ ॥
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः ।तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ १९ ॥
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति ।कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः ॥ २० ॥
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः ।कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ २१ ॥
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः ।नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति ।प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः ॥ २२ ॥
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप ।मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते ।विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव ॥ २३ ॥
गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन ।त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ २४ ॥
वैशंपायन उवाच ।एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम् ।समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ २५ ॥
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत ।गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ २६ ॥
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः ।तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ २७ ॥
प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च ।अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ २८ ॥
गतायामथ तस्यां तु राजा दुर्योधनस्तदा ।स्वप्नभूतमिदं सर्वमचिन्तयत भारत ।विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः ॥ २९ ॥
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः ।अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ ३० ॥
एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः ।विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ ३१ ॥
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना ।अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा ॥ ३२ ॥
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः ।रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः ॥ ३३ ॥
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः ।न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते ।न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः ॥ ३४ ॥
दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत् ।स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ ३५ ॥
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति ।मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ।न कालोऽद्य विषादस्य भयस्य मरणस्य वा ॥ ३६ ॥
परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः ।उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन् ।शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि ॥ ३७ ॥
अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम् ।सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ ३८ ॥
गते त्रयोदशे वर्षे सत्येनायुधमालभे ।आनयिष्याम्यहं पार्थान्वशं तव जनाधिप ॥ ३९ ॥
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा ।प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः ।दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम् ॥ ४० ॥
ततो मनुजशार्दूलो योजयामास वाहिनीम् ।रथनागाश्वकलिलां पदातिजनसंकुलाम् ॥ ४१ ॥
गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः ।श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः ॥ ४२ ॥
रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला ।व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी ॥ ४३ ॥
जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत् ।गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ ४४ ॥
सुयोधनो ययावग्रे श्रिया परमया ज्वलन् ।कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ ४५ ॥
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते ।भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः ॥ ४६ ॥
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा ।प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ।कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा ॥ ४७ ॥
« »