Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते सहिताः सर्वे दुर्योधनमुपागमन् ।अब्रुवंश्च महाराज यदूचुः कौरवं प्रति ॥ १ ॥
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान् ।अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत ॥ २ ॥
शासतैनानधर्मज्ञान्मम विप्रियकारिणः ।यदि प्रक्रीडितो देवैः सर्वैः सह शतक्रतुः ॥ ३ ॥
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः ।सर्व एवाभिसंनद्धा योधाश्चापि सहस्रशः ॥ ४ ॥
ततः प्रमथ्य गन्धर्वांस्तद्वनं विविशुर्बलात् ।सिंहनादेन महता पूरयन्तो दिशो दश ॥ ५ ॥
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः ।ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप ।ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत् ॥ ६ ॥
यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ।ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन् ॥ ७ ॥
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति ।अनार्याञ्शासतेत्येवं चित्रसेनोऽत्यमर्षणः ॥ ८ ॥
अनुज्ञातास्तु गन्धर्वाश्चित्रसेनेन भारत ।प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन् ॥ ९ ॥
तान्दृष्ट्वा पततः शीघ्रान्गन्धर्वानुद्यतायुधान् ।सर्वे ते प्राद्रवन्संख्ये धार्तराष्ट्रस्य पश्यतः ॥ १० ॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।वैकर्तनस्तदा वीरो नासीत्तत्र पराङ्मुखः ॥ ११ ॥
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।महता शरवर्षेण राधेयः प्रत्यवारयत् ॥ १२ ॥
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथायसैः ।गन्धर्वाञ्शतशोऽभ्यघ्नँल्लघुत्वात्सूतनन्दनः ॥ १३ ॥
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः ।क्षणेन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम् ॥ १४ ॥
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता ।भूय एवाभ्यवर्तन्त शतशोऽथ सहस्रशः ॥ १५ ॥
गन्धर्वभूता पृथिवी क्षणेन समपद्यत ।आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः ॥ १६ ॥
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः ।दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः ।न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिस्वनैः ॥ १७ ॥
भूयश्च योधयामासुः कृत्वा कर्णमथाग्रतः ।महता रथघोषेण हयचारेण चाप्युत ।वैकर्तनं परीप्सन्तो गन्धर्वान्समवारयन् ॥ १८ ॥
ततः संन्यपतन्सर्वे गन्धर्वाः कौरवैः सह ।तदा सुतुमुलं युद्धमभवल्लोमहर्षणम् ॥ १९ ॥
ततस्ते मृदवोऽभूवन्गन्धर्वाः शरपीडिताः ।उच्चुक्रुशुश्च कौरव्या गन्धर्वान्प्रेक्ष्य पीडितान् ॥ २० ॥
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनोऽत्यमर्षणः ।उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः ॥ २१ ॥
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित् ।तयामुह्यन्त कौरव्याश्चित्रसेनस्य मायया ॥ २२ ॥
एकैको हि तदा योधो धार्तराष्ट्रस्य भारत ।पर्यवर्तत गन्धर्वैर्दशभिर्दशभिः सह ॥ २३ ॥
ततः संपीड्यमानास्ते बलेन महता तदा ।प्राद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः ॥ २४ ॥
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः ।कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः ॥ २५ ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।गन्धर्वान्योधयां चक्रुः समरे भृशविक्षताः ॥ २६ ॥
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः ।जिघांसमानाः सहिताः कर्णमभ्यद्रवन्रणे ॥ २७ ॥
असिभिः पट्टिशैः शूलैर्गदाभिश्च महाबलाः ।सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन् ॥ २८ ॥
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन् ।ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन् ॥ २९ ॥
अन्ये छत्रं वरूथं च बन्धुरं च तथापरे ।गन्धर्वा बहुसाहस्राः खण्डशोऽभ्यहनन्रथम् ॥ ३० ॥
ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत् ।विकर्णरथमास्थाय मोक्षायाश्वानचोदयत् ॥ ३१ ॥
« »