Click on words to see what they mean.

वैशंपायन उवाच ।गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ १ ॥
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।दुर्योधनो महाराज नासीत्तत्र पराङ्मुखः ॥ २ ॥
तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥ ३ ॥
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ ४ ॥
युगमीषां वरूथं च तथैव ध्वजसारथी ।अश्वांस्त्रिवेणुं तल्पं च तिलशोऽभ्यहनन्रथम् ॥ ५ ॥
दुर्योधनं चित्रसेनो विरथं पतितं भुवि ।अभिद्रुत्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ ६ ॥
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ ७ ॥
विविंशतिं चित्रसेनमादायान्ये प्रदुद्रुवुः ।विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ ८ ॥
सैन्यास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ ९ ॥
शकटापणवेश्याश्च यानयुग्यं च सर्वशः ।शरणं पाण्डवाञ्जग्मुर्ह्रियमाणे महीपतौ ॥ १० ॥
प्रियदर्शनो महाबाहुर्धार्तराष्ट्रो महाबलः ।गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ ११ ॥
दुःशासनो दुर्विषहो दुर्मुखो दुर्जयस्तथा ।बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ १२ ॥
इति दुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।आर्ता दीनस्वराः सर्वे युधिष्ठिरमुपागमन् ॥ १३ ॥
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ १४ ॥
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ।अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ १५ ॥
दुर्मन्त्रितमिदं तात राज्ञो दुर्द्यूतदेविनः ।द्वेष्टारमन्ये क्लीबस्य पातयन्तीति नः श्रुतम् ॥ १६ ॥
तदिदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ।दिष्ट्या लोके पुमानस्ति कश्चिदस्मत्प्रिये स्थितः ।येनास्माकं हृतो भार आसीनानां सुखावहः ॥ १७ ॥
शीतवातातपसहांस्तपसा चैव कर्शितान् ।समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ १८ ॥
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।ये शीलमनुवर्तन्ते ते पश्यन्ति पराभवम् ॥ १९ ॥
अधर्मो हि कृतस्तेन येनैतदुपशिक्षितम् ।अनृशंसास्तु कौन्तेयास्तस्याध्यक्षान्ब्रवीमि वः ॥ २० ॥
एवं ब्रुवाणं कौन्तेयं भीमसेनममर्षणम् ।न कालः परुषस्यायमिति राजाभ्यभाषत ॥ २१ ॥
« »