Click on words to see what they mean.

वैशंपायन उवाच ।अथ दुर्योधनो राजा तत्र तत्र वने वसन् ।जगाम घोषानभितस्तत्र चक्रे निवेशनम् ॥ १ ॥
रमणीये समाज्ञाते सोदके समहीरुहे ।देशे सर्वगुणोपेते चक्रुरावसथं नराः ॥ २ ॥
तथैव तत्समीपस्थान्पृथगावसथान्बहून् ।कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः ॥ ३ ॥
ददर्श स तदा गावः शतशोऽथ सहस्रशः ।अङ्कैर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः ॥ ४ ॥
अङ्कयामास वत्सांश्च जज्ञे चोपसृतास्त्वपि ।बालवत्साश्च या गावः कालयामास ता अपि ॥ ५ ॥
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान् ।वृतो गोपालकैः प्रीतो व्यहरत्कुरुनन्दनः ॥ ६ ॥
स च पौरजनः सर्वः सैनिकाश्च सहस्रशः ।यथोपजोषं चिक्रीडुर्वने तस्मिन्यथामराः ॥ ७ ॥
ततो गोपाः प्रगातारः कुशला नृत्तवादिते ।धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः ॥ ८ ॥
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु ।तेभ्यो यथार्हमन्नानि पानानि विविधानि च ॥ ९ ॥
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान् ।गवयर्क्षवराहांश्च समन्तात्पर्यकालयन् ॥ १० ॥
स ताञ्शरैर्विनिर्भिन्दन्गजान्बध्नन्महावने ।रमणीयेषु देशेषु ग्राहयामास वै मृगान् ॥ ११ ॥
गोरसानुपयुञ्जान उपभोगांश्च भारत ।पश्यन्सुरमणीयानि पुष्पितानि वनानि च ॥ १२ ॥
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च ।अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः ।ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत् ॥ १३ ॥
यदृच्छया च तदहो धर्मपुत्रो युधिष्ठिरः ।ईजे राजर्षियज्ञेन सद्यस्केन विशां पते ।दिव्येन विधिना राजा वन्येन कुरुसत्तमः ॥ १४ ॥
कृत्वा निवेशमभितः सरसस्तस्य कौरवः ।द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः ॥ १५ ॥
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः ।आक्रीडावसथाः क्षिप्रं क्रियन्तामिति भारत ॥ १६ ॥
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः ।चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः ॥ १७ ॥
सेनाग्रं धार्तराष्ट्रस्य प्राप्तं द्वैतवनं सरः ।प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन् ॥ १८ ॥
तत्र गन्धर्वराजो वै पूर्वमेव विशां पते ।कुबेरभवनाद्राजन्नाजगाम गणावृतः ॥ १९ ॥
गणैरप्सरसां चैव त्रिदशानां तथात्मजैः ।विहारशीलः क्रीडार्थं तेन तत्संवृतं सरः ॥ २० ॥
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः ।प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः ॥ २१ ॥
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान् ।प्रेषयामास कौरव्य उत्सारयत तानिति ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः ।सरो द्वैतवनं गत्वा गन्धर्वानिदमब्रुवन् ॥ २३ ॥
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली ।विजिहीर्षुरिहायाति तदर्थमपसर्पत ॥ २४ ॥
एवमुक्तास्तु गन्धर्वाः प्रहसन्तो विशां पते ।प्रत्यब्रुवंस्तान्पुरुषानिदं सुपरुषं वचः ॥ २५ ॥
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः ।योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः ॥ २६ ॥
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः ।ये तस्य वचनादेवमस्मान्ब्रूत विचेतसः ॥ २७ ॥
गच्छत त्वरिताः सर्वे यत्र राजा स कौरवः ।द्वेष्यं माद्यैव गच्छध्वं धर्मराजनिवेशनम् ॥ २८ ॥
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः ।संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत् ॥ २९ ॥
« »