Click on words to see what they mean.

मार्कण्डेय उवाच ।यदाभिषिक्तो भगवान्सेनापत्येन पावकिः ।तदा संप्रस्थितः श्रीमान्हृष्टो भद्रवटं हरः ।रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः ॥ १ ॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे ।उत्पपात दिवं शुभ्रं कालेनाभिप्रचोदितः ॥ २ ॥
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरान् ।सिंहा नभस्यगच्छन्त नदन्तश्चारुकेसराः ॥ ३ ॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह ।विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा ॥ ४ ॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह ।आस्थाय रुचिरं याति पुष्पकं नरवाहनः ॥ ५ ॥
ऐरावतं समास्थाय शक्रश्चापि सुरैः सह ।पृष्ठतोऽनुययौ यान्तं वरदं वृषभध्वजम् ॥ ६ ॥
जम्भकैर्यक्षरक्षोभिः स्रग्विभिः समलंकृतः ।यात्यमोघो महायक्षो दक्षिणं पक्षमास्थितः ॥ ७ ॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः ।गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह संगताः ॥ ८ ॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः ।घोरैर्व्याधिशतैर्याति घोररूपवपुस्तथा ॥ ९ ॥
यमस्य पृष्ठतश्चैव घोरस्त्रिशिखरः शितः ।विजयो नाम रुद्रस्य याति शूलः स्वलंकृतः ॥ १० ॥
तमुग्रपाशो वरुणो भगवान्सलिलेश्वरः ।परिवार्य शनैर्याति यादोभिर्विविधैर्वृतः ॥ ११ ॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः ।गदामुसलशक्त्याद्यैर्वृतः प्रहरणोत्तमैः ॥ १२ ॥
पट्टिशं त्वन्वगाद्राजंश्छत्रं रौद्रं महाप्रभम् ।कमण्डलुश्चाप्यनु तं महर्षिगणसंवृतः ॥ १३ ॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्श्रिया वृतः ।भृग्वङ्गिरोभिः सहितो देवैश्चाप्यभिपूजितः ॥ १४ ॥
एषां तु पृष्ठतो रुद्रो विमले स्यन्दने स्थितः ।याति संहर्षयन्सर्वांस्तेजसा त्रिदिवौकसः ॥ १५ ॥
ऋषयश्चैव देवाश्च गन्धर्वा भुजगास्तथा ।नद्यो नदा द्रुमाश्चैव तथैवाप्सरसां गणाः ॥ १६ ॥
नक्षत्राणि ग्रहाश्चैव देवानां शिशवश्च ये ।स्त्रियश्च विविधाकारा यान्ति रुद्रस्य पृष्ठतः ।सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः ॥ १७ ॥
पर्जन्यश्चाप्यनुययौ नमस्कृत्य पिनाकिनम् ।छत्रं तु पाण्डुरं सोमस्तस्य मूर्धन्यधारयत् ।चामरे चापि वायुश्च गृहीत्वाग्निश्च विष्ठितौ ॥ १८ ॥
शक्रश्च पृष्ठतस्तस्य याति राजञ्श्रिया वृतः ।सह राजर्षिभिः सर्वैः स्तुवानो वृषकेतनम् ॥ १९ ॥
गौरी विद्याथ गान्धारी केशिनी मित्रसाह्वया ।सावित्र्या सह सर्वास्ताः पार्वत्या यान्ति पृष्ठतः ॥ २० ॥
तत्र विद्यागणाः सर्वे ये केचित्कविभिः कृताः ।यस्य कुर्वन्ति वचनं सेन्द्रा देवाश्चमूमुखे ॥ २१ ॥
स गृहीत्वा पताकां तु यात्यग्रे राक्षसो ग्रहः ।व्यापृतस्तु श्मशाने यो नित्यं रुद्रस्य वै सखा ।पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥ २२ ॥
एभिः स सहितस्तत्र ययौ देवो यथासुखम् ।अग्रतः पृष्ठतश्चैव न हि तस्य गतिर्ध्रुवा ॥ २३ ॥
रुद्रं सत्कर्मभिर्मर्त्याः पूजयन्तीह दैवतम् ।शिवमित्येव यं प्राहुरीशं रुद्रं पिनाकिनम् ।भावैस्तु विविधाकारैः पूजयन्ति महेश्वरम् ॥ २४ ॥
देवसेनापतिस्त्वेवं देवसेनाभिरावृतः ।अनुगच्छति देवेशं ब्रह्मण्यः कृत्तिकासुतः ॥ २५ ॥
अथाब्रवीन्महासेनं महादेवो बृहद्वचः ।सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥ २६ ॥
स्कन्द उवाच ।सप्तमं मारुतस्कन्धं पालयिष्याम्यहं प्रभो ।यदन्यदपि मे कार्यं देव तद्वद माचिरम् ॥ २७ ॥
रुद्र उवाच ।कार्येष्वहं त्वया पुत्र संद्रष्टव्यः सदैव हि ।दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥ २८ ॥
मार्कण्डेय उवाच ।इत्युक्त्वा विससर्जैनं परिष्वज्य महेष्वरः ।विसर्जिते ततः स्कन्दे बभूवौत्पातिकं महत् ।सहसैव महाराज देवान्सर्वान्प्रमोहयत् ॥ २९ ॥
जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम् ।चचाल व्यनदच्चोर्वी तमोभूतं जगत्प्रभो ॥ ३० ॥
ततस्तद्दारुणं दृष्ट्वा क्षुभितः शंकरस्तदा ।उमा चैव महाभागा देवाश्च समहर्षयः ॥ ३१ ॥
ततस्तेषु प्रमूढेषु पर्वताम्बुदसंनिभम् ।नानाप्रहरणं घोरमदृश्यत महद्बलम् ॥ ३२ ॥
तद्धि घोरमसंख्येयं गर्जच्च विविधा गिरः ।अभ्यद्रवद्रणे देवान्भगवन्तं च शंकरम् ॥ ३३ ॥
तैर्विसृष्टान्यनीकेषु बाणजालान्यनेकशः ।पर्वताश्च शतघ्न्यश्च प्रासाश्च परिघा गदाः ॥ ३४ ॥
निपतद्भिश्च तैर्घोरैर्देवानीकं महायुधैः ।क्षणेन व्यद्रवत्सर्वं विमुखं चाप्यदृश्यत ॥ ३५ ॥
निकृत्तयोधनागाश्वं कृत्तायुधमहारथम् ।दानवैरर्दितं सैन्यं देवानां विमुखं बभौ ॥ ३६ ॥
असुरैर्वध्यमानं तत्पावकैरिव काननम् ।अपतद्दग्धभूयिष्ठं महाद्रुमवनं यथा ॥ ३७ ॥
ते विभिन्नशिरोदेहाः प्रच्यवन्ते दिवौकसः ।न नाथमध्यगच्छन्त वध्यमाना महारणे ॥ ३८ ॥
अथ तद्विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः ।आश्वासयन्नुवाचेदं बलवद्दानवार्दितम् ॥ ३९ ॥
भयं त्यजत भद्रं वः शूराः शस्त्राणि गृह्णत ।कुरुध्वं विक्रमे बुद्धिं मा वः काचिद्व्यथा भवेत् ॥ ४० ॥
जयतैनान्सुदुर्वृत्तान्दानवान्घोरदर्शनान् ।अभिद्रवत भद्रं वो मया सह महासुरान् ॥ ४१ ॥
शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवौकसः ।दानवान्प्रत्ययुध्यन्त शक्रं कृत्वा व्यपाश्रयम् ॥ ४२ ॥
ततस्ते त्रिदशाः सर्वे मरुतश्च महाबलाः ।प्रत्युद्ययुर्महावेगाः साध्याश्च वसुभिः सह ॥ ४३ ॥
तैर्विसृष्टान्यनीकेषु क्रुद्धैः शस्त्राणि संयुगे ।शराश्च दैत्यकायेषु पिबन्ति स्मासृगुल्बणम् ॥ ४४ ॥
तेषां देहान्विनिर्भिद्य शरास्ते निशितास्तदा ।निष्पतन्तो अदृश्यन्त नगेभ्य इव पन्नगाः ॥ ४५ ॥
तानि दैत्यशरीराणि निर्भिन्नानि स्म सायकैः ।अपतन्भूतले राजंश्छिन्नाभ्राणीव सर्वशः ॥ ४६ ॥
ततस्तद्दानवं सैन्यं सर्वैर्देवगणैर्युधि ।त्रासितं विविधैर्बाणैः कृतं चैव पराङ्मुखम् ॥ ४७ ॥
अथोत्क्रुष्टं तदा हृष्टैः सर्वैर्देवैरुदायुधैः ।संहतानि च तूर्याणि तदा सर्वाण्यनेकशः ॥ ४८ ॥
एवमन्योन्यसंयुक्तं युद्धमासीत्सुदारुणम् ।देवानां दानवानां च मांसशोणितकर्दमम् ॥ ४९ ॥
अनयो देवलोकस्य सहसैव व्यदृश्यत ।तथा हि दानवा घोरा विनिघ्नन्ति दिवौकसः ॥ ५० ॥
ततस्तूर्यप्रणादाश्च भेरीणां च महास्वनाः ।बभूवुर्दानवेन्द्राणां सिंहनादाश्च दारुणाः ॥ ५१ ॥
अथ दैत्यबलाद्घोरान्निष्पपात महाबलः ।दानवो महिषो नाम प्रगृह्य विपुलं गिरिम् ॥ ५२ ॥
ते तं घनैरिवादित्यं दृष्ट्वा संपरिवारितम् ।समुद्यतगिरिं राजन्व्यद्रवन्त दिवौकसः ॥ ५३ ॥
अथाभिद्रुत्य महिषो देवांश्चिक्षेप तं गिरिम् ।पतता तेन गिरिणा देवसैन्यस्य पार्थिव ।भीमरूपेण निहतमयुतं प्रापतद्भुवि ॥ ५४ ॥
अथ तैर्दानवैः सार्धं महिषस्त्रासयन्सुरान् ।अभ्यद्रवद्रणे तूर्णं सिंहः क्षुद्रमृगानिव ॥ ५५ ॥
तमापतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः ।व्यद्रवन्त रणे भीता विशीर्णायुधकेतनाः ॥ ५६ ॥
ततः स महिषः क्रुद्धस्तूर्णं रुद्ररथं ययौ ।अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम् ॥ ५७ ॥
यदा रुद्ररथं क्रुद्धो महिषः सहसा गतः ।रेसतू रोदसी गाढं मुमुहुश्च महर्षयः ॥ ५८ ॥
व्यनदंश्च महाकाया दैत्या जलधरोपमाः ।आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥ ५९ ॥
तथाभूते तु भगवान्नावधीन्महिषं रणे ।सस्मार च तदा स्कन्दं मृत्युं तस्य दुरात्मनः ॥ ६० ॥
महिषोऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत् ।देवान्संत्रासयंश्चापि दैत्यांश्चापि प्रहर्षयन् ॥ ६१ ॥
ततस्तस्मिन्भये घोरे देवानां समुपस्थिते ।आजगाम महासेनः क्रोधात्सूर्य इव ज्वलन् ॥ ६२ ॥
लोहिताम्बरसंवीतो लोहितस्रग्विभूषणः ।लोहितास्यो महाबाहुर्हिरण्यकवचः प्रभुः ॥ ६३ ॥
रथमादित्यसंकाशमास्थितः कनकप्रभम् ।तं दृष्ट्वा दैत्यसेना सा व्यद्रवत्सहसा रणे ॥ ६४ ॥
स चापि तां प्रज्वलितां महिषस्य विदारिणीम् ।मुमोच शक्तिं राजेन्द्र महासेनो महाबलः ॥ ६५ ॥
सा मुक्ताभ्यहनच्छक्तिर्महिषस्य शिरो महत् ।पपात भिन्ने शिरसि महिषस्त्यक्तजीवितः ॥ ६६ ॥
क्षिप्ताक्षिप्ता तु सा शक्तिर्हत्वा शत्रून्सहस्रशः ।स्कन्दहस्तमनुप्राप्ता दृश्यते देवदानवैः ॥ ६७ ॥
प्रायः शरैर्विनिहता महासेनेन धीमता ।शेषा दैत्यगणा घोरा भीतास्त्रस्ता दुरासदैः ।स्कन्दस्य पार्षदैर्हत्वा भक्षिताः शतसंघशः ॥ ६८ ॥
दानवान्भक्षयन्तस्ते प्रपिबन्तश्च शोणितम् ।क्षणान्निर्दानवं सर्वमकार्षुर्भृशहर्षिताः ॥ ६९ ॥
तमांसीव यथा सूर्यो वृक्षानग्निर्घनान्खगः ।तथा स्कन्दोऽजयच्छत्रून्स्वेन वीर्येण कीर्तिमान् ॥ ७० ॥
संपूज्यमानस्त्रिदशैरभिवाद्य महेश्वरम् ।शुशुभे कृत्तिकापुत्रः प्रकीर्णांशुरिवांशुमान् ॥ ७१ ॥
नष्टशत्रुर्यदा स्कन्दः प्रयातश्च महेश्वरम् ।अथाब्रवीन्महासेनं परिष्वज्य पुरंदरः ॥ ७२ ॥
ब्रह्मदत्तवरः स्कन्द त्वयायं महिषो हतः ।देवास्तृणमया यस्य बभूवुर्जयतां वर ।सोऽयं त्वया महाबाहो शमितो देवकण्टकः ॥ ७३ ॥
शतं महिषतुल्यानां दानवानां त्वया रणे ।निहतं देवशत्रूणां यैर्वयं पूर्वतापिताः ॥ ७४ ॥
तावकैर्भक्षिताश्चान्ये दानवाः शतसंघशः ।अजेयस्त्वं रणेऽरीणामुमापतिरिव प्रभुः ॥ ७५ ॥
एतत्ते प्रथमं देव ख्यातं कर्म भविष्यति ।त्रिषु लोकेषु कीर्तिश्च तवाक्षय्या भविष्यति ।वशगाश्च भविष्यन्ति सुरास्तव सुरात्मज ॥ ७६ ॥
महासेनेत्येवमुक्त्वा निवृत्तः सह दैवतैः ।अनुज्ञातो भगवता त्र्यम्बकेन शचीपतिः ॥ ७७ ॥
गतो भद्रवटं रुद्रो निवृत्ताश्च दिवौकसः ।उक्ताश्च देवा रुद्रेण स्कन्दं पश्यत मामिव ॥ ७८ ॥
स हत्वा दानवगणान्पूज्यमानो महर्षिभिः ।एकाह्नैवाजयत्सर्वं त्रैलोक्यं वह्निनन्दनः ॥ ७९ ॥
स्कन्दस्य य इदं जन्म पठते सुसमाहितः ।स पुष्टिमिह संप्राप्य स्कन्दसालोक्यतामियात् ॥ ८० ॥
« »