Click on words to see what they mean.

मार्कण्डेय उवाच ।यदा स्कन्देन मातॄणामेवमेतत्प्रियं कृतम् ।अथैनमब्रवीत्स्वाहा मम पुत्रस्त्वमौरसः ॥ १ ॥
इच्छाम्यहं त्वया दत्तां प्रीतिं परमदुर्लभाम् ।तामब्रवीत्ततः स्कन्दः प्रीतिमिच्छसि कीदृशीम् ॥ २ ॥
स्वाहोवाच ।दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज ।बाल्यात्प्रभृति नित्यं च जातकामा हुताशने ॥ ३ ॥
न च मां कामिनीं पुत्र सम्यग्जानाति पावकः ।इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना ॥ ४ ॥
स्कन्द उवाच ।हव्यं कव्यं च यत्किंचिद्द्विजा मन्त्रपुरस्कृतम् ।होष्यन्त्यग्नौ सदा देवि स्वाहेत्युक्त्वा समुद्यतम् ॥ ५ ॥
अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः ।एवमग्निस्त्वया सार्धं सदा वत्स्यति शोभने ॥ ६ ॥
मार्कण्डेय उवाच ।एवमुक्ता ततः स्वाहा तुष्टा स्कन्देन पूजिता ।पावकेन समायुक्ता भर्त्रा स्कन्दमपूजयत् ॥ ७ ॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत् ।अभिगच्छ महादेवं पितरं त्रिपुरार्दनम् ॥ ८ ॥
रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया ।हितार्थं सर्वलोकानां जातस्त्वमपराजितः ॥ ९ ॥
उमायोन्यां च रुद्रेण शुक्रं सिक्तं महात्मना ।आस्ते गिरौ निपतितं मिञ्जिकामिञ्जिकं यतः ॥ १० ॥
संभूतं लोहितोदे तु शुक्रशेषमवापतत् ।सूर्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि ।आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत् ॥ ११ ॥
त एते विविधाकारा गणा ज्ञेया मनीषिभिः ।तव पारिषदा घोरा य एते पिशिताशनाः ॥ १२ ॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम् ।अपूजयदमेयात्मा पितरं पितृवत्सलः ॥ १३ ॥
अर्कपुष्पैस्तु ते पञ्च गणाः पूज्या धनार्थिभिः ।व्याधिप्रशमनार्थं च तेषां पूजां समाचरेत् ॥ १४ ॥
मिञ्जिकामिञ्जिकं चैव मिथुनं रुद्रसंभवम् ।नमस्कार्यं सदैवेह बालानां हितमिच्छता ॥ १५ ॥
स्त्रियो मानुषमांसादा वृद्धिका नाम नामतः ।वृक्षेषु जातास्ता देव्यो नमस्कार्याः प्रजार्थिभिः ॥ १६ ॥
एवमेते पिशाचानामसंख्येया गणाः स्मृताः ।घण्टायाः सपताकायाः शृणु मे संभवं नृप ॥ १७ ॥
ऐरावतस्य घण्टे द्वे वैजयन्त्याविति श्रुते ।गुहस्य ते स्वयं दत्ते शक्रेणानाय्य धीमता ॥ १८ ॥
एका तत्र विशाखस्य घण्टा स्कन्दस्य चापरा ।पताका कार्त्तिकेयस्य विशाखस्य च लोहिता ॥ १९ ॥
यानि क्रीडनकान्यस्य देवैर्दत्तानि वै तदा ।तैरेव रमते देवो महासेनो महाबलः ॥ २० ॥
स संवृतः पिशाचानां गणैर्देवगणैस्तथा ।शुशुभे काञ्चने शैले दीप्यमानः श्रिया वृतः ॥ २१ ॥
तेन वीरेण शुशुभे स शैलः शुभकाननः ।आदित्येनेवांशुमता मन्दरश्चारुकन्दरः ॥ २२ ॥
संतानकवनैः फुल्लैः करवीरवनैरपि ।पारिजातवनैश्चैव जपाशोकवनैस्तथा ॥ २३ ॥
कदम्बतरुषण्डैश्च दिव्यैर्मृगगणैरपि ।दिव्यैः पक्षिगणैश्चैव शुशुभे श्वेतपर्वतः ॥ २४ ॥
तत्र देवगणाः सर्वे सर्वे चैव महर्षयः ।मेघतूर्यरवाश्चैव क्षुब्धोदधिसमस्वनाः ॥ २५ ॥
तत्र दिव्याश्च गन्धर्वा नृत्यन्त्यप्सरसस्तथा ।हृष्टानां तत्र भूतानां श्रूयते निनदो महान् ॥ २६ ॥
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम् ।प्रहृष्टं प्रेक्षते स्कन्दं न च ग्लायति दर्शनात् ॥ २७ ॥
« »