Click on words to see what they mean.

वैशंपायन उवाच ।उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु ।द्रौपदी सत्यभामा च विविशाते तदा समम् ।जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ १ ॥
चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे ।कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ॥ २ ॥
अथाब्रवीत्सत्यभामा कृष्णस्य महिषी प्रिया ।सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ ३ ॥
केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि ।लोकपालोपमान्वीरान्यूनः परमसंमतान् ।कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥ ४ ॥
तव वश्या हि सततं पाण्डवाः प्रियदर्शने ।मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥ ५ ॥
व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा ।विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ॥ ६ ॥
मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् ।येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ ७ ॥
एवमुक्त्वा सत्यभामा विरराम यशस्विनी ।पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ ८ ॥
असत्स्त्रीणां समाचारं सत्ये मामनुपृच्छसि ।असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ ९ ॥
अनुप्रश्नः संशयो वा नैतत्त्वय्युपपद्यते ।तथा ह्युपेता बुद्ध्या त्वं कृष्णस्य महिषी प्रिया ॥ १० ॥
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम् ।उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ ११ ॥
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम् ।न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ १२ ॥
अमित्रप्रहितांश्चापि गदान्परमदारुणान् ।मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः ॥ १३ ॥
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते ।तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ १४ ॥
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा ।अपुमांसः कृताः स्त्रीभिर्जडान्धबधिरास्तथा ॥ १५ ॥
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत ।न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन ॥ १६ ॥
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु ।तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ १७ ॥
अहंकारं विहायाहं कामक्रोधौ च सर्वदा ।सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ १८ ॥
प्रणयं प्रतिसंगृह्य निधायात्मानमात्मनि ।शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥ १९ ॥
दुर्व्याहृताच्छङ्कमाना दुःस्थिताद्दुरवेक्षितात् ।दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥ २० ॥
सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् ।सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ॥ २१ ॥
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः ।द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ २२ ॥
नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि ।न संविशामि नाश्नामि सदा कर्मकरेष्वपि ॥ २३ ॥
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् ।प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ २४ ॥
प्रमृष्टभाण्डा मृष्टान्ना काले भोजनदायिनी ।संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥ २५ ॥
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती ।अनुकूलवती नित्यं भवाम्यनलसा सदा ॥ २६ ॥
अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः ।अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ २७ ॥
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ।निरताहं सदा सत्ये भर्तॄणामुपसेवने ।सर्वथा भर्तृरहितं न ममेष्टं कथंचन ॥ २८ ॥
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ।सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ २९ ॥
यच्च भर्ता न पिबति यच्च भर्ता न खादति ।यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥ ३० ॥
यथोपदेशं नियता वर्तमाना वराङ्गने ।स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता ॥ ३१ ॥
ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा ।भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ।मान्यानां मानसत्कारा ये चान्ये विदिता मया ॥ ३२ ॥
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ॥ ३३ ॥
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः ।आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ॥ ३४ ॥
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ।स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ॥ ३५ ॥
अहं पतीन्नातिशये नात्यश्ने नातिभूषये ।नापि परिवदे श्वश्रूं सर्वदा परियन्त्रिता ॥ ३६ ॥
अवधानेन सुभगे नित्योत्थानतयैव च ।भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ॥ ३७ ॥
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ॥ ३८ ॥
नैतामतिशये जातु वस्त्रभूषणभोजनैः ।नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ॥ ३९ ॥
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ४० ॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ ४१ ॥
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ ४२ ॥
तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः ।यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ ४३ ॥
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥ ४४ ॥
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ॥ ४५ ॥
तासां नाम च रूपं च भोजनाच्छादनानि च ।सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ ४६ ॥
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ ४७ ॥
शतमश्वसहस्राणि दश नागायुतानि च ।युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ ४८ ॥
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् ।येषां संख्याविधिं चैव प्रदिशामि शृणोमि च ॥ ४९ ॥
अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः ।आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ ५० ॥
सर्वं राज्ञः समुदयमायं च व्ययमेव च ।एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ॥ ५१ ॥
मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः ।उपासनरताः सर्वे घटन्ते स्म शुभानने ॥ ५२ ॥
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥ ५३ ॥
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम् ।एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥ ५४ ॥
अनिशायां निशायां च सहायाः क्षुत्पिपासयोः ।आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ ५५ ॥
प्रथमं प्रतिबुध्यामि चरमं संविशामि च ।नित्यकालमहं सत्ये एतत्संवननं मम ॥ ५६ ॥
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत् ।असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥ ५७ ॥
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥ ५८ ॥
अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व मे ।कामकारः सखीनां हि सोपहासं प्रभाषितुम् ॥ ५९ ॥
« »