Click on words to see what they mean.

वासुदेव उवाच ।आनर्तनगरं मुक्तं ततोऽहमगमं तदा ।महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ १ ॥
अपश्यं द्वारकां चाहं महाराज हतत्विषम् ।निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥ २ ॥
अनभिज्ञेयरूपाणि द्वारकोपवनानि च ।दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ ३ ॥
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृशम् ।किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ॥ ४ ॥
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत् ।रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥ ५ ॥
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः ।विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥ ६ ॥
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।राजानमाहुकं चैव तथैवानकदुन्दुभिम् ।सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ॥ ७ ॥
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ।शाल्वराजविनाशाय प्रयातं मां निबोधत ॥ ८ ॥
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ।सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ।त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ॥ ९ ॥
ते मयाश्वासिता वीरा यथावद्भरतर्षभ ।सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥ १० ॥
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः ।वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ॥ ११ ॥
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः ।प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ १२ ॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः ।कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ॥ १३ ॥
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् ।सरांसि सरितश्चैव मार्त्तिकावतमासदम् ॥ १४ ॥
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात् ।प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥ १५ ॥
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः ।समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥ १६ ॥
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर ।आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ १७ ॥
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः ।पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥ १८ ॥
स चापि पापप्रकृतिर्दैतेयापसदो नृप ।मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ १९ ॥
सैनिकान्मम सूतं च हयांश्च समवाकिरत् ।अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥ २० ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥ २१ ॥
ते हयान्मे रथं चैव तदा दारुकमेव च ।छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ॥ २२ ॥
न हया न रथो वीर न यन्ता मम दारुकः ।अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥ २३ ॥
ततोऽहमपि कौरव्य शराणामयुतान्बहून् ।अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥ २४ ॥
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत ।खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥ २५ ॥
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः ।हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ २६ ॥
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे ।अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥ २७ ॥
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत ।वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥ २८ ॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः ।नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ॥ २९ ॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् ।जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥ ३० ॥
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा ।मायायुद्धेन महता योधयामास मां युधि ॥ ३१ ॥
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः ।पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ॥ ३२ ॥
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम् ।तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ ३३ ॥
ततोऽभवत्तम इव प्रभातमिव चाभवत् ।दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ ३४ ॥
एवं मायां विकुर्वाणो योधयामास मां रिपुः ।विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ।यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ ३५ ॥
ततो व्योम महाराज शतसूर्यमिवाभवत् ।शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ ३६ ॥
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः ।ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ।ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ॥ ३७ ॥
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम् ।लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ॥ ३८ ॥
« »