Click on words to see what they mean.

वासुदेव उवाच ।एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः ।युध्यमानो मया संख्ये वियदभ्यागमत्पुनः ॥ १ ॥
ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान्मुसलानसींश्च ।चिक्षेप रोषान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाङ्क्षी ॥ २ ॥
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव ।द्विधा त्रिधा चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव ॥ ३ ॥
ततः शतसहस्रेण शराणां नतपर्वणाम् ।दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ ४ ॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निव ।स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥ ५ ॥
इति तस्य निशम्याहं सारथेः करुणं वचः ।अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ ६ ॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये ।अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥ ७ ॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् ।अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ ८ ॥
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे ।अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥ ९ ॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥ १० ॥
आहुकस्य वचो वीर तस्यैव परिचारकः ।विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥ ११ ॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ १२ ॥
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन ।विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥ १३ ॥
तदलं साधु युद्धेन निवर्तस्व जनार्दन ।द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥ १४ ॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥ १५ ॥
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् ।जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥ १६ ॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।तेषु रक्षां समाधाय प्रयातः सौभपातने ॥ १७ ॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा ।सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ।साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ १८ ॥
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन ।शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ १९ ॥
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः ।बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥ २० ॥
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।सुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥ २१ ॥
ततोऽपश्यं महाराज प्रपतन्तमहं तदा ।सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ २२ ॥
तस्य रूपं प्रपततः पितुर्मम नराधिप ।ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥ २३ ॥
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः ।प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ २४ ॥
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम ।मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ २५ ॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् ।मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥ २६ ॥
प्रसार्य बाहू पततः प्रसार्य चरणावपि ।रूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥ २७ ॥
तं पतन्तं महाबाहो शूलपट्टिशपाणयः ।अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥ २८ ॥
ततो मुहूर्तात्प्रतिलभ्य संज्ञामहं तदा वीर महाविमर्दे ।न तत्र सौभं न रिपुं न शाल्वं पश्यामि वृद्धं पितरं न चापि ॥ २९ ॥
ततो ममासीन्मनसि मायेयमिति निश्चितम् ।प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ॥ ३० ॥
« »