Click on words to see what they mean.

वासुदेव उवाच ।एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे ।प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥ १ ॥
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् ।युद्धज्ञश्चास्मि वृष्णीनां नात्र किंचिदतोऽन्यथा ॥ २ ॥
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ ३ ॥
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् ।कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ ४ ॥
स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया ।पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ ५ ॥
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ॥ ६ ॥
एवमुक्त्वा ततो वीर हयान्संचोद्य संगरे ।रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ॥ ७ ॥
मण्डलानि विचित्राणि यमकानीतराणि च ।सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ ८ ॥
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥ ९ ॥
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ॥ १० ॥
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ ।चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ ११ ॥
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् ।यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ॥ १२ ॥
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।भूय एव महाबाहो प्रययौ हयसंमतः ॥ १३ ॥
ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।मुमोच तनये वीरे मम रुक्मिणिनन्दने ॥ १४ ॥
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा ।रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ॥ १५ ॥
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् ।आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ १६ ॥
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः ।ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ॥ १७ ॥
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ १८ ॥
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते ।रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ॥ १९ ॥
तमर्चितं सर्वदाशार्हपूगैराशीर्भिरर्कज्वलनप्रकाशम् ।दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥ २० ॥
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः ।नारदं प्रेषयामासुः श्वसनं च महाबलम् ॥ २१ ॥
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।नैष वध्यस्त्वया वीर शाल्वराजः कथंचन ॥ २२ ॥
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ॥ २३ ॥
मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।कृष्णः संकल्पितो धात्रा तन्न मिथ्या भवेदिति ॥ २४ ॥
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥ २५ ॥
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः ।व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ २६ ॥
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः ।सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ २७ ॥
« »