Click on words to see what they mean.

मार्कण्डेय उवाच ।एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।दृढं प्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ १ ॥
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् ।न तेऽस्त्यविदितं किंचिद्धर्मेष्विह हि दृश्यते ॥ २ ॥
व्याध उवाच ।प्रत्यक्षं मम यो धर्मस्तं पश्य द्विजसत्तम ।येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुंगव ॥ ३ ॥
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् ।द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥ ४ ॥
मार्कण्डेय उवाच ।इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।सौधं हृद्यं चतुःशालमतीव च मनोहरम् ॥ ५ ॥
देवतागृहसंकाशं दैवतैश्च सुपूजितम् ।शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥ ६ ॥
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ ।कृताहारौ सुतुष्टौ तावुपविष्टौ वरासने ।धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसापतत् ॥ ७ ॥
वृद्धावूचतुः ।उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु ।प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि ।सत्पुत्रेण त्वया पुत्र नित्यकालं सुपूजितौ ॥ ८ ॥
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते ।प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥ ९ ॥
पितुः पितामहा ये च तथैव प्रपितामहाः ।प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ १० ॥
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।न चान्या वितथा बुद्धिर्दृश्यते सांप्रतं तव ॥ ११ ॥
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥ १२ ॥
मार्कण्डेय उवाच ।ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् ।तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ १३ ॥
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ ।सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे ।अनामयं च वां कच्चित्सदैवेह शरीरयोः ॥ १४ ॥
वृद्धावूचतुः ।कुशलं नो गृहे विप्र भृत्यवर्गे च सर्वशः ।कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निह ॥ १५ ॥
मार्कण्डेय उवाच ।बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ १६ ॥
पिता माता च भगवन्नेतौ मे दैवतं परम् ।यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ १७ ॥
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः ।संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ १८ ॥
उपहारानाहरन्तो देवतानां यथा द्विजाः ।कुर्वते तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ १९ ॥
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् ।एतौ पुष्पैः फलै रत्नैस्तोषयामि सदा द्विज ॥ २० ॥
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः ।यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ २१ ॥
एतदर्थं मम प्राणा भार्या पुत्राः सुहृज्जनाः ।सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ २२ ॥
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये ।आहारं संप्रयच्छामि स्वयं च द्विजसत्तम ॥ २३ ॥
अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन् ।अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥ २४ ॥
धर्ममेव गुरुं ज्ञात्वा करोमि द्विजसत्तम ।अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ २५ ॥
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः ।पिता माताग्निरात्मा च गुरुश्च द्विजसत्तम ॥ २६ ॥
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ।भवेयुरग्नयस्तस्य परिचीर्णास्तु नित्यशः ।गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः ॥ २७ ॥
« »