Click on words to see what they mean.

मार्कण्डेय उवाच ।एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत ।ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ॥ १ ॥
ब्राह्मण उवाच ।सत्त्वस्य रजसश्चैव तमसश्च यथातथम् ।गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ २ ॥
व्याध उवाच ।हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।एषां गुणान्पृथक्त्वेन निबोध गदतो मम ॥ ३ ॥
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् ।प्रकाशबहुलत्वाच्च सत्त्वं ज्याय इहोच्यते ॥ ४ ॥
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः ।दुर्दृशीकस्तमोध्वस्तः सक्रोधस्तामसोऽलसः ॥ ५ ॥
प्रवृत्तवाक्यो मन्त्री च योऽनुराग्यभ्यसूयकः ।विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ ६ ॥
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः ।अक्रोधनो नरो धीमान्दान्तश्चैव स सात्त्विकः ॥ ७ ॥
सात्त्विकस्त्वथ संबुद्धो लोकवृत्तेन क्लिश्यते ।यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ॥ ८ ॥
वैराग्यस्य हि रूपं तु पूर्वमेव प्रवर्तते ।मृदुर्भवत्यहंकारः प्रसीदत्यार्जवं च यत् ॥ ९ ॥
ततोऽस्य सर्वद्वंद्वानि प्रशाम्यन्ति परस्परम् ।न चास्य संयमो नाम क्वचिद्भवति कश्चन ॥ १० ॥
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः ।वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥ ११ ॥
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते ।गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥ १२ ॥
ब्राह्मण उवाच ।पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् ।अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ १३ ॥
मार्कण्डेय उवाच ।प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर ।व्याधः स कथयामास ब्राह्मणाय महात्मने ॥ १४ ॥
व्याध उवाच ।मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् ।प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ।भूतं भव्यं भविष्यच्च सर्वं प्राणे प्रतिष्ठितम् ॥ १५ ॥
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ।स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।मनो बुद्धिरहंकारो भूतानां विषयश्च सः ॥ १६ ॥
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते ।पृष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ १७ ॥
बस्तिमूले गुदे चैव पावकः समुपाश्रितः ।वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥ १८ ॥
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ १९ ॥
संधौ संधौ संनिविष्टः सर्वेष्वपि तथानिलः ।शरीरेषु मनुष्याणां व्यान इत्युपदिष्यते ॥ २० ॥
धातुष्वग्निस्तु विततः स तु वायुसमीरितः ।रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ २१ ॥
प्राणानां संनिपातात्तु संनिपातः प्रजायते ।ऊष्मा चाग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ २२ ॥
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ ।समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ २३ ॥
तस्यापि पायुपर्यन्तस्तथा स्याद्गुदसंज्ञितः ।स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ २४ ॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ २५ ॥
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्थितः ।नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ २६ ॥
प्रवृत्ता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा ।वहन्त्यन्नरसान्नाड्यो दश प्राणप्रचोदिताः ॥ २७ ॥
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् ।जितक्लमासना धीरा मूर्धन्यात्मानमादधुः ।एवं सर्वेषु विततौ प्राणापानौ हि देहिषु ॥ २८ ॥
एकादशविकारात्मा कलासंभारसंभृतः ।मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् ॥ २९ ॥
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ।आत्मानं तं विजानीहि नित्यं योगजितात्मकम् ॥ ३० ॥
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे ।क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ॥ ३१ ॥
जीवात्मकानि जानीहि रजः सत्त्वं तमस्तथा ।जीवमात्मगुणं विद्धि तथात्मानं परात्मकम् ॥ ३२ ॥
सचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् ।ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त ॥ ३३ ॥
एवं सर्वेषु भूतेषु भूतात्मा न प्रकाशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ ३४ ॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ ३५ ॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥ ३६ ॥
पूर्वरात्रे परे चैव युञ्जानः सततं मनः ।लघ्वाहारो विशुद्धात्मा पश्यन्नात्मानमात्मनि ॥ ३७ ॥
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति ।दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते ॥ ३८ ॥
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।एतत्पवित्रं यज्ञानां तपो वै संक्रमो मतः ॥ ३९ ॥
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेत मत्सरात् ।विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ ४० ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।आत्मज्ञानं परं ज्ञानं परं सत्यव्रतं व्रतम् ॥ ४१ ॥
सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् ।यद्भूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ ४२ ॥
यस्य सर्वे समारम्भाः निराशीर्बन्धनाः सदा ।त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ ४३ ॥
यतो न गुरुरप्येनं च्यावयेदुपपादयन् ।तं विद्याद्ब्रह्मणो योगं वियोगं योगसंज्ञितम् ॥ ४४ ॥
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् ।नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ ४५ ॥
आकिंचन्यं सुसंतोषो निराशित्वमचापलम् ।एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥ ४६ ॥
परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः ।अशोकं स्थानमातिष्ठेन्निश्चलं प्रेत्य चेह च ॥ ४७ ॥
तपोनित्येन दान्तेन मुनिना संयतात्मना ।अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ ४८ ॥
गुणागुणमनासङ्गमेककार्यमनन्तरम् ।एतद्ब्राह्मण ते वृत्तमाहुरेकपदं सुखम् ॥ ४९ ॥
परित्यजति यो दुःखं सुखं चाप्युभयं नरः ।ब्रह्म प्राप्नोति सोऽत्यन्तमसङ्गेन च गच्छति ॥ ५० ॥
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ५१ ॥
« »