Click on words to see what they mean.

मार्कण्डेय उवाच ।कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः ।तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ १ ॥
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः ।स वृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ २ ॥
उपरिष्टाच्च वृक्षस्य बलाका संन्यलीयत ।तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ ३ ॥
तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः ।भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता ॥ ४ ॥
अपध्याता च विप्रेण न्यपतद्वसुधातले ।बलाकां पतितां दृष्ट्वा गतसत्त्वामचेतनाम् ।कारुण्यादभिसंतप्तः पर्यशोचत तां द्विजः ॥ ५ ॥
अकार्यं कृतवानस्मि रागद्वेषबलात्कृतः ।इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः ॥ ६ ॥
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ।प्रविष्टस्तत्कुलं यत्र पूर्वं चरितवांस्तु सः ॥ ७ ॥
देहीति याचमानो वै तिष्ठेत्युक्तः स्त्रिया ततः ।शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ॥ ८ ॥
एतस्मिन्नन्तरे राजन्क्षुधासंपीडितो भृशम् ।भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ ९ ॥
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् ।पाद्यमाचमनीयं च ददौ भर्त्रे तथासनम् ॥ १० ॥
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा ।आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ ११ ॥
उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर ।दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ १२ ॥
न कर्मणा न मनसा नात्यश्नान्नापि चापिबत् ।तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ १३ ॥
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी ।भर्तुश्चापि हितं यत्तत्सततं सानुवर्तते ॥ १४ ॥
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा ।शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥ १५ ॥
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् ।कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ १६ ॥
व्रीडिता साभवत्साध्वी तदा भरतसत्तम ।भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ १७ ॥
ब्राह्मण उवाच ।किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने ।उपरोधं कृतवती न विसर्जितवत्यसि ॥ १८ ॥
मार्कण्डेय उवाच ।ब्राह्मणं क्रोधसंतप्तं ज्वलन्तमिव तेजसा ।दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥ १९ ॥
क्षन्तुमर्हसि मे विप्र भर्ता मे दैवतं महत् ।स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ॥ २० ॥
ब्राह्मण उवाच ।ब्राह्मणा न गरीयांसो गरीयांस्ते पतिः कृतः ।गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ २१ ॥
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानुषा भुवि ।अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ।ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि ॥ २२ ॥
स्त्र्युवाच ।नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः ।अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ २३ ॥
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् ।अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ २४ ॥
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् ।येषां क्रोधाग्निरद्यापि दण्डके नोपशाम्यति ॥ २५ ॥
ब्राह्मणानां परिभवाद्वातापिश्च दुरात्मवान् ।अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ २६ ॥
प्रभावा बहवश्चापि श्रूयन्ते ब्रह्मवादिनाम् ।क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् ॥ २७ ॥
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ।पतिशुश्रूषया धर्मो यः स मे रोचते द्विज ॥ २८ ॥
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ।अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम ॥ २९ ॥
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ।बलाका हि त्वया दग्धा रोषात्तद्विदितं मम ॥ ३० ॥
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ।यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ ३१ ॥
यो वदेदिह सत्यानि गुरुं संतोषयेत च ।हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ ३२ ॥
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः ।कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ॥ ३३ ॥
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः ।सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥ ३४ ॥
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा ।दद्याद्वापि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ ३५ ॥
ब्रह्मचारी च वेदान्यो अधीयीत द्विजोत्तमः ।स्वाध्याये चाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥ ३६ ॥
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् ।सत्यं तथा व्याहरतां नानृते रमते मनः ॥ ३७ ॥
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् ।इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ।सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः ॥ ३८ ॥
दुर्ज्ञेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः ।श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् ॥ ३९ ॥
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ।भवानपि च धर्मज्ञः स्वाध्यायनिरतः शुचिः ।न तु तत्त्वेन भगवन्धर्मान्वेत्सीति मे मतिः ॥ ४० ॥
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः ।मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ।तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम ॥ ४१ ॥
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित ।स्त्रियो ह्यवध्याः सर्वेषां ये धर्मविदुषो जनाः ॥ ४२ ॥
ब्राह्मण उवाच ।प्रीतोऽस्मि तव भद्रं ते गतः क्रोधश्च शोभने ।उपालम्भस्त्वया ह्युक्तो मम निःश्रेयसं परम् ।स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने ॥ ४३ ॥
मार्कण्डेय उवाच ।तया विसृष्टो निर्गम्य स्वमेव भवनं ययौ ।विनिन्दन्स द्विजोऽऽत्मानं कौशिको नरसत्तम ॥ ४४ ॥
« »