Click on words to see what they mean.

मार्कण्डेय उवाच ।चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः ।विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥ १ ॥
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् ।श्रद्दधानेन भाव्यं वै गच्छामि मिथिलामहम् ॥ २ ॥
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल ।तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ ३ ॥
इति संचिन्त्य मनसा श्रद्दधानः स्त्रिया वचः ।बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ।संप्रतस्थे स मिथिलां कौतूहलसमन्वितः ॥ ४ ॥
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ।ततो जगाम मिथिलां जनकेन सुरक्षिताम् ॥ ५ ॥
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ।गोपुराट्टालकवतीं गृहप्राकारशोभिताम् ॥ ६ ॥
प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् ।पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥ ७ ॥
अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् ।हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥ ८ ॥
सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ।धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥ ९ ॥
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् ।मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् ।आकुलत्वात्तु क्रेतॄणामेकान्ते संस्थितो द्विजः ॥ १० ॥
स तु ज्ञात्वा द्विजं प्राप्तं सहसा संभ्रमोत्थितः ।आजगाम यतो विप्रः स्थित एकान्त आसने ॥ ११ ॥
व्याध उवाच ।अभिवादये त्वा भगवन्स्वागतं ते द्विजोत्तम ।अहं व्याधस्तु भद्रं ते किं करोमि प्रशाधि माम् ॥ १२ ॥
एकपत्न्या यदुक्तोऽसि गच्छ त्वं मिथिलामिति ।जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ १३ ॥
मार्कण्डेय उवाच ।श्रुत्वा तु तस्य तद्वाक्यं स विप्रो भृशहर्षितः ।द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ १४ ॥
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् ।गृहं गच्छाव भगवन्यदि रोचयसेऽनघ ॥ १५ ॥
बाढमित्येव संहृष्टो विप्रो वचनमब्रवीत् ।अग्रतस्तु द्विजं कृत्वा स जगाम गृहान्प्रति ॥ १६ ॥
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः ।पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः ॥ १७ ॥
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् ।कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे ।अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ १८ ॥
व्याध उवाच ।कुलोचितमिदं कर्म पितृपैतामहं मम ।वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥ १९ ॥
धात्रा तु विहितं पूर्वं कर्म स्वं पालयाम्यहम् ।प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥ २० ॥
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च ।देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥ २१ ॥
न कुत्सयाम्यहं किंचिन्न गर्हे बलवत्तरम् ।कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥ २२ ॥
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् ।दण्डनीतिस्त्रयी विद्या तेन लोका भवन्त्युत ॥ २३ ॥
कर्म शूद्रे कृषिर्वैश्ये संग्रामः क्षत्रिये स्मृतः ।ब्रह्मचर्यं तपो मन्त्राः सत्यं च ब्राह्मणे सदा ॥ २४ ॥
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः ।विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ २५ ॥
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते ।मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ २६ ॥
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते ।स्वकर्मनिरता वर्णाश्चत्वारोऽपि द्विजोत्तम ॥ २७ ॥
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् ।दण्ड्यं दण्डे निक्षिपति तथा न ग्लाति धार्मिकम् ॥ २८ ॥
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति ।श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ २९ ॥
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् ।सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ ३० ॥
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् ।न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ ३१ ॥
न भक्षयामि मांसानि ऋतुगामी तथा ह्यहम् ।सदोपवासी च तथा नक्तभोजी तथा द्विज ॥ ३२ ॥
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् ।प्राणिहिंसारतश्चापि भवते धार्मिकः पुनः ॥ ३३ ॥
व्यभिचारान्नरेन्द्राणां धर्मः संकीर्यते महान् ।अधर्मो वर्धते चापि संकीर्यन्ते तथा प्रजाः ॥ ३४ ॥
उरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च ।क्लीबाश्चान्धाश्च जायन्ते बधिरा लम्बचूचुकाः ।पार्थिवानामधर्मत्वात्प्रजानामभवः सदा ॥ ३५ ॥
स एष राजा जनकः सर्वं धर्मेण पश्यति ।अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा ॥ ३६ ॥
ये चैव मां प्रशंसन्ति ये च निन्दन्ति मानवाः ।सर्वान्सुपरिणीतेन कर्मणा तोषयाम्यहम् ॥ ३७ ॥
ये जीवन्ति स्वधर्मेण संभुञ्जन्ते च पार्थिवाः ।न किंचिदुपजीवन्ति दक्षा उत्थानशीलिनः ॥ ३८ ॥
शक्त्यान्नदानं सततं तितिक्षा धर्मनित्यता ।यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ।त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे ॥ ३९ ॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ४० ॥
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् ॥ ४१ ॥
कर्म चेत्किंचिदन्यत्स्यादितरन्न समाचरेत् ।यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् ॥ ४२ ॥
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ।आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ ४३ ॥
कर्म चैतदसाधूनां वृजिनानामसाधुवत् ।न धर्मोऽस्तीति मन्वानाः शुचीनवहसन्ति ये ।अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥ ४४ ॥
महादृतिरिवाध्मातः पापो भवति नित्यदा ।मूढानामवलिप्तानामसारं भाषितं भवेत् ।दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ ४५ ॥
न लोके राजते मूर्खः केवलात्मप्रशंसया ।अपि चेह मृजा हीनः कृतविद्यः प्रकाशते ॥ ४६ ॥
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् ।न कश्चिद्गुणसंपन्नः प्रकाशो भुवि दृश्यते ॥ ४७ ॥
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते ।नैतत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ ४८ ॥
कर्मणा येन तेनेह पापाद्द्विजवरोत्तम ।एवं श्रुतिरियं ब्रह्मन्धर्मेषु परिदृश्यते ॥ ४९ ॥
पापान्यबुद्ध्वेह पुरा कृतानि प्राग्धर्मशीलो विनिहन्ति पश्चात् ।धर्मो ब्रह्मन्नुदते पूरुषाणां यत्कुर्वते पापमिह प्रमादात् ॥ ५० ॥
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः ।चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ ५१ ॥
वसनस्येव छिद्राणि साधूनां विवृणोति यः ।पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते ।मुच्यते सर्वपापेभ्यो महाभ्रैरिव चन्द्रमाः ॥ ५२ ॥
यथादित्यः समुद्यन्वै तमः सर्वं व्यपोहति ।एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ ५३ ॥
पापानां विद्ध्यधिष्ठानं लोभमेव द्विजोत्तम ।लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः ।अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः ॥ ५४ ॥
तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः ।सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ ५५ ॥
मार्कण्डेय उवाच ।स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत ।शिष्टाचारं कथमहं विद्यामिति नरोत्तम ।एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥ ५६ ॥
व्याध उवाच ।यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ ५७ ॥
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥ ५८ ॥
न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् ।आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ ५९ ॥
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ ६० ॥
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ ६१ ॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥ ६२ ॥
ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः ।अपथा गच्छतां तेषामनुयातापि पीड्यते ॥ ६३ ॥
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥ ६४ ॥
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः ।उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ ६५ ॥
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ ६६ ॥
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् ।नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ ६७ ॥
क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥ ६८ ॥
अहिंसा सत्यवचनं सर्वभूतहितं परम् ।अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ ६९ ॥
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥ ७० ॥
यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते ।पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ ७१ ॥
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः ।अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥ ७२ ॥
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥ ७३ ॥
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ ७४ ॥
तेषामदीनसत्त्वानां दुष्कराचारकर्मणाम् ।स्वैः कर्मभिः सत्कृतानां घोरत्वं संप्रणश्यति ॥ ७५ ॥
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ ७६ ॥
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः ॥ ७७ ॥
वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥ ७८ ॥
पारणं चापि विद्यानां तीर्थानामवगाहनम् ।क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ ७९ ॥
सर्वभूतदयावन्तो अहिंसानिरताः सदा ।परुषं न प्रभाषन्ते सदा सन्तो द्विजप्रियाः ॥ ८० ॥
शुभानामशुभानां च कर्मणां फलसंचये ।विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ ८१ ॥
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः ।सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥ ८२ ॥
दातारः संविभक्तारो दीनानुग्रहकारिणः ।सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥ ८३ ॥
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥ ८४ ॥
पीडया च कलत्रस्य भृत्यानां च समाहिताः ।अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः ॥ ८५ ॥
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च ।एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥ ८६ ॥
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् ।अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ ८७ ॥
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ ८८ ॥
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् ।न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥ ८९ ॥
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ।शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥ ९० ॥
अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् ॥ ९१ ॥
कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् ।शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥ ९२ ॥
प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् ।प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ।अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥ ९३ ॥
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् ।शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ ९४ ॥
« »