Click on words to see what they mean.

मार्कण्डेय उवाच ।ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् ।वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥ १ ॥
स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः ।वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति ॥ २ ॥
तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः ।विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ॥ ३ ॥
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च ।स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च ॥ ४ ॥
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् ।कल्किश्चरिष्यति महीं सदा दस्युवधे रतः ॥ ५ ॥
हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः ।विक्रोशमानान्सुभृशं दस्यून्नेष्यति संक्षयम् ॥ ६ ॥
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत ।भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ॥ ७ ॥
आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा ।यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ॥ ८ ॥
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ।आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः ॥ ९ ॥
जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह ।सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ॥ १० ॥
नरा दानेषु निरता व्रतेषु नियमेषु च ।जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ।पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् ॥ ११ ॥
व्यवहाररता वैश्या भविष्यन्ति कृते युगे ।षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥ १२ ॥
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च ।एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ।पश्चिमे युगकाले च यः स ते संप्रकीर्तितः ॥ १३ ॥
सर्वलोकस्य विदिता युगसंख्या च पाण्डव ।एतत्ते सर्वमाख्यातमतीतानागतं मया ।वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ॥ १४ ॥
एवं संसारमार्गा मे बहुशश्चिरजीविना ।दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् ॥ १५ ॥
इदं चैवापरं भूयः सह भ्रातृभिरच्युत ।धर्मसंशयमोक्षार्थं निबोध वचनं मम ॥ १६ ॥
धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर ।धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति ॥ १७ ॥
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ ।न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ।ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया ॥ १८ ॥
वैशंपायन उवाच ।मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः ।उवाच वचनं धीमान्परमं परमद्युतिः ॥ १९ ॥
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने ।कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ॥ २० ॥
मार्कण्डेय उवाच ।दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः ।अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः ।चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय ॥ २१ ॥
प्रमादाद्यत्कृतं तेऽभूत्संयग्दानेन तज्जय ।अलं ते मानमाश्रित्य सततं परवान्भव ॥ २२ ॥
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ।एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ॥ २३ ॥
न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि ।तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ॥ २४ ॥
एष कालो महाबाहो अपि सर्वदिवौकसाम् ।मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः ॥ २५ ॥
मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ ।अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥ २६ ॥
जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ ।कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥ २७ ॥
युधिष्ठिर उवाच ।यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् ।तथा करिष्ये यत्नेन भवतः शासनं विभो ॥ २८ ॥
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः ।करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥ २९ ॥
वैशंपायन उवाच ।श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः ।प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना ॥ ३० ॥
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः ।विस्मिताः समपद्यन्त पुराणस्य निवेदनात् ॥ ३१ ॥
« »