Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ ।द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ॥ १ ॥
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना ।सान्त्वयामास मानार्हान्मन्यमानो यथाविधि ॥ २ ॥
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् ।पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ॥ ३ ॥
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर ।मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥ ४ ॥
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम ।समाकुलेषु धर्मेषु किं नु शेषं भविष्यति ॥ ५ ॥
किंवीर्या मानवास्तत्र किमाहारविहारिणः ।किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ ६ ॥
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् ।विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ ७ ॥
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत ।रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः ॥ ८ ॥
मार्कण्डेय उवाच ।भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ ।कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ ९ ॥
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः ।वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ॥ १० ॥
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः ।त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ ११ ॥
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति ।चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ॥ १२ ॥
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव ।मनुष्याणामनुयुगं ह्रसतीति निबोध मे ॥ १३ ॥
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर ।व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ॥ १४ ॥
सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः ।सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ॥ १५ ॥
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ।विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ॥ १६ ॥
लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः ।वैरबद्धा भविष्यन्ति परस्परवधेप्सवः ॥ १७ ॥
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् ।शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ॥ १८ ॥
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः ।ईदृशो भविता लोको युगान्ते पर्युपस्थिते ॥ १९ ॥
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः ।भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ॥ २० ॥
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ।गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ॥ २१ ॥
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ २२ ॥
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः ।ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥ २३ ॥
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः ।तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ २४ ॥
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च ।अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ २५ ॥
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ।न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः ॥ २६ ॥
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः ।एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥ २७ ॥
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा ।निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ॥ २८ ॥
म्लेच्छभूतं जगत्सर्वं निष्क्रियं यज्ञवर्जितम् ।भविष्यति निरानन्दमनुत्सवमथो तथा ॥ २९ ॥
प्रायशः कृपणानां हि तथा बन्धुमतामपि ।विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ ३० ॥
अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः ।तत्कथादानसंतुष्टा दुष्टानामपि मानवाः ।परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ॥ ३१ ॥
संघातयन्तः कौन्तेय राजानः पापबुद्धयः ।परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः ।भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ ३२ ॥
अरक्षितारो लुब्धाश्च मानाहंकारदर्पिताः ।केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ ३३ ॥
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च ।भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ॥ ३४ ॥
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते ।स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ॥ ३५ ॥
राजानश्चाप्यसंतुष्टाः परार्थान्मूढचेतसः ।सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३६ ॥
म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत ।हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते ॥ ३७ ॥
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः ।स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ ३८ ॥
भीरवः शूरमानीनः शूरा भीरुविषादिनः ।न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ ३९ ॥
एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् ।अधर्मो वर्धति महान्न च धर्मः प्रवर्तते ॥ ४० ॥
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप ।एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ ४१ ॥
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा ।भार्या च पतिशुश्रूषां न करिष्यति काचन ॥ ४२ ॥
ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ ४३ ॥
स्वैराहाराश्च पुरुषा योषितश्च विशां पते ।अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ ४४ ॥
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर ।न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः ॥ ४५ ॥
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः ।तमोग्रस्तस्तदा लोको भविष्यति नराधिप ॥ ४६ ॥
परमायुश्च भविता तदा वर्षाणि षोडश ।ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ४७ ॥
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते ।सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥ ४८ ॥
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति ।युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ ४९ ॥
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति ।न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ ५० ॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ॥ ५१ ॥
म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु ।भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥ ५२ ॥
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् ।युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति ॥ ५३ ॥
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा ।आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते ॥ ५४ ॥
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः ।भवितारो जनाः सर्वे संप्राप्ते युगसंक्षये ॥ ५५ ॥
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः ।भविता संक्षयो लोके जीवितस्य च देहिनाम् ॥ ५६ ॥
तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् ।ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते ॥ ५७ ॥
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः ।त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ॥ ५८ ॥
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः ।यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् ॥ ५९ ॥
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च ।प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ ६० ॥
दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः ।कुराजभिश्च सततं करभारप्रपीडिताः ॥ ६१ ॥
धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये ।विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ ६२ ॥
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः ।श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ ६३ ॥
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः ।एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।शूद्राः परिचरिष्यन्ति न द्विजान्युगसंक्षये ॥ ६४ ॥
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च ।देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ ६५ ॥
एडूकचिह्ना पृथिवी न देवगृहभूषिता ।भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥ ६६ ॥
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा ।भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ॥ ६७ ॥
पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् ।प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् ॥ ६८ ॥
अकालवर्षी पर्जन्यो भविष्यति गते युगे ।अक्रमेण मनुष्याणां भविष्यति तदा क्रिया ।विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह ॥ ६९ ॥
मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् ।करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ॥ ७० ॥
निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः ।आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः ॥ ७१ ॥
एवं पर्याकुले लोके मर्यादा न भविष्यति ।न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ ७२ ॥
आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् ।अर्थयुक्त्या प्रवत्स्यन्ति मित्रसंबन्धिबान्धवाः ।अभावः सर्वभूतानां युगान्ते च भविष्यति ॥ ७३ ॥
दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च ।ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा ।उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ ७४ ॥
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति ।तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः ।कबन्धान्तर्हितो भानुरुदयास्तमये तदा ॥ ७५ ॥
अकालवर्षी च तदा भविष्यति सहस्रदृक् ।सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ७६ ॥
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः ।भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः ॥ ७७ ॥
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये ।सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥ ७८ ॥
अपर्वणि महाराज सूर्यं राहुरुपैष्यति ।युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति ॥ ७९ ॥
पानीयं भोजनं चैव याचमानास्तदाध्वगाः ।न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ ८० ॥
निर्घातवायसा नागाः शकुनाः समृगद्विजाः ।रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ८१ ॥
मित्रसंबन्धिनश्चापि संत्यक्ष्यन्ति नरास्तदा ।जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥ ८२ ॥
अथ देशान्दिशश्चापि पत्तनानि पुराणि च ।क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ ८३ ॥
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः ।विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ ८४ ॥
ततस्तुमुलसंघाते वर्तमाने युगक्षये ।द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥ ८५ ॥
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये ।भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ ८६ ॥
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ ८७ ॥
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च ।प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः ।क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ ८८ ॥
कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः ।उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥ ८९ ॥
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे ।मनसा तस्य सर्वाणि वाहनान्यायुधानि च ।उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ ९० ॥
स धर्मविजयी राजा चक्रवर्ती भविष्यति ।स चेमं संकुलं लोकं प्रसादमुपनेष्यति ॥ ९१ ॥
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।स संक्षेपो हि सर्वस्य युगस्य परिवर्तकः ॥ ९२ ॥
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः ।उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः ॥ ९३ ॥
« »