Click on words to see what they mean.

वैशंपायन उवाच ।भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ १ ॥
अथाचष्ट मार्कण्डेयः ॥ २ ॥
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ॥ ३ ॥
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ॥ ४ ॥
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् ।तच्च विवेश ॥ ५ ॥
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ ६ ॥
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥ ७ ॥
ततः शयानो मधुरं गीतशब्दमशृणोत् ॥ ८ ॥
स श्रुत्वाचिन्तयत् ।नेह मनुष्यगतिं पश्यामि ।कस्य खल्वयं गीतशब्द इति ॥ ९ ॥
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ॥ १० ॥
अथ सा राज्ञः समीपे पर्यक्रामत् ॥ ११ ॥
तामब्रवीद्राजा ।कस्यासि सुभगे त्वमिति ॥ १२ ॥
सा प्रत्युवाच ।कन्यास्मीति ॥ १३ ॥
तां राजोवाच ।अर्थी त्वयाहमिति ॥ १४ ॥
अथोवाच कन्या ।समयेनाहं शक्या त्वया लब्धुम् ।नान्यथेति ॥ १५ ॥
तां राजा समयमपृच्छत् ॥ १६ ॥
ततः कन्येदमुवाच ।उदकं मे न दर्शयितव्यमिति ॥ १७ ॥
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ॥ १८ ॥
तत्रैवासीने राजनि सेनान्वगच्छत् ।पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥ १९ ॥
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया ।स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते ।नान्यत्किंचनापश्यत् ॥ २० ॥
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् ।किमत्र प्रयोजनं वर्तत इति ॥ २१ ॥
अथाब्रुवंस्ताः स्त्रियः ।अपूर्वमिव पश्याम उदकं नात्र नीयतेति ॥ २२ ॥
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् ।वनमिदमुदारमनुदकम् ।साध्वत्र रम्यतामिति ॥ २३ ॥
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् ।स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् ।अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ॥ २४ ॥
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ॥ २५ ॥
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥ २६ ॥
अथ तां देवीं स राजाब्रवीत् ।साध्ववतर वापीसलिलमिति ॥ २७ ॥
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् ।न पुनरुदमज्जत् ॥ २८ ॥
तां मृगयमाणो राजा नापश्यत् ॥ २९ ॥
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास ।सर्वमण्डूकवधः क्रियतामिति ।यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ॥ ३० ॥
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् ।ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ ३१ ॥
ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ॥ ३२ ॥
उपेत्य चैनमुवाच ।मा राजन्क्रोधवशं गमः ।प्रसादं कुरु ।नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ॥ ३३ ॥
श्लोकौ चात्र भवतः ।मा मण्डूकाञ्जिघांस त्वं कोपं संधारयाच्युत ।प्रक्षीयते धनोद्रेको जनानामविजानताम् ॥ ३४ ॥
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे ।अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ ३५ ॥
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच ।न हि क्षम्यते तन्मया ।हनिष्याम्येतान् ।एतैर्दुरात्मभिः प्रिया मे भक्षिता ।सर्वथैव मे वध्या मण्डूकाः ।नार्हसि विद्वन्मामुपरोद्धुमिति ॥ ३६ ॥
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच ।प्रसीद राजन् ।अहमायुर्नाम मण्डूकराजः ।मम सा दुहिता सुशोभना नाम ।तस्या दौःशील्यमेतत् ।बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥ ३७ ॥
तमब्रवीद्राजा ।तयास्म्यर्थी ।सा मे दीयतामिति ॥ ३८ ॥
अथैनां राज्ञे पितादात् ।अब्रवीच्चैनाम् ।एनं राजानं शुश्रूषस्वेति ॥ ३९ ॥
स उवाच दुहितरम् ।यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ॥ ४० ॥
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् ।अनुगृहीतोऽस्मीति ॥ ४१ ॥
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ॥ ४२ ॥
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः संबभूवुः शलो दलो बलश्चेति ।ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ ४३ ॥
अथ कदाचिच्छलो मृगयामचरत् ।मृगं चासाद्य रथेनान्वधावत् ॥ ४४ ॥
सूतं चोवाच ।शीघ्रं मां वहस्वेति ॥ ४५ ॥
स तथोक्तः सूतो राजानमब्रवीत् ।मा क्रियतामनुबन्धः ।नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ॥ ४६ ॥
ततोऽब्रवीद्राजा सूतम् ।आचक्ष्व मे वाम्यौ ।हन्मि वा त्वामिति ॥ ४७ ॥
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे ।वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ ४८ ॥
अथैनमेवं ब्रुवाणमब्रवीद्राजा ।वामदेवाश्रमं याहीति ॥ ४९ ॥
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ।भगवन्मृगो मया विद्धः पलायते ।तं संभावयेयम् ।अर्हसि मे वाम्यौ दातुमिति ॥ ५० ॥
तमब्रवीदृषिः ।ददानि ते वाम्यौ ।कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ॥ ५१ ॥
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति ।गच्छंश्चाब्रवीत्सूतम् ।अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् ।नैतौ प्रतिदेयौ वामदेवायेति ॥ ५२ ॥
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ ५३ ॥
अथर्षिश्चिन्तयामास ।तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते ।न मे प्रतिनिर्यातयति ।अहो कष्टमिति ॥ ५४ ॥
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् ।गच्छात्रेय ।राजानं ब्रूहि ।यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥ ५५ ॥
स गत्वैवं तं राजानमब्रवीत् ॥ ५६ ॥
तं राजा प्रत्युवाच ।राज्ञामेतद्वाहनम् ।अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् ।किं च ब्राह्मणानामश्वैः कार्यम् ।साधु प्रतिगम्यतामिति ॥ ५७ ॥
स गत्वैवमुपाध्यायायाचष्ट ॥ ५८ ॥
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् ।न चादाद्राजा ॥ ५९ ॥
वामदेव उवाच ।प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमन्यैरशक्यम् ।मा त्वा वधीद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ ६० ॥
राजोवाच ।अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव ।ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति ॥ ६१ ॥
वामदेव उवाच ।छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति ।अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन् ॥ ६२ ॥
राजोवाच ।चत्वारो वा गर्दभास्त्वां वहन्तु श्रेष्ठाश्वतर्यो हरयो वा तुरंगाः ।तैस्त्वं याहि क्षत्रियस्यैष वाहो मम वाम्यौ न तवैतौ हि विद्धि ॥ ६३ ॥
वामदेव उवाच ।घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन्यदिहाजीवमानः ।अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा ॥ ६४ ॥
राजोवाच ।ये त्वा विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा ।ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ ६५ ॥
वामदेव उवाच ।नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा ।यस्त्वेवं ब्रह्म तपसान्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः ॥ ६६ ॥
मार्कण्डेय उवाच ।एवमुक्ते वामदेवेन राजन्समुत्तस्थू राक्षसा घोररूपाः ।तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ ६७ ॥
इक्ष्वाकवो यदि ब्रह्मन्दलो वा विधेया मे यदि वान्ये विशोऽपि ।नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥ ६८ ॥
एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाशु महीं क्षितीशः ।ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ ६९ ॥
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः ।दलं राजानं ब्राह्मणानां हि देयमेवं राजन्सर्वधर्मेषु दृष्टम् ॥ ७० ॥
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ ।एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥ ७१ ॥
एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर संगृहीतम् ।येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः ॥ ७२ ॥
वामदेव उवाच ।जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र ।तं जहि त्वं मद्वचनात्प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः ॥ ७३ ॥
मार्कण्डेय उवाच ।एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान ।स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥ ७४ ॥
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य ।आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ ७५ ॥
वामदेव उवाच ।यं त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि ।न त्वमेनं शरवर्यं विमोक्तुं संधातुं वा शक्ष्यसि मानवेन्द्र ॥ ७६ ॥
राजोवाच ।इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् ।न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥ ७७ ॥
वामदेव उवाच ।संस्पृशैनां महिषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् ॥ ७८ ॥
मार्कण्डेय उवाच ।ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ।यथा युक्तं वामदेवाहमेनं दिने दिने संविशन्ती व्यशंसम् ।ब्राह्मणेभ्यो मृगयन्ती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ ७९ ॥
वामदेव उवाच ।त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते ।प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ ८० ॥
राजपुत्र्युवाच ।वरं वृणे भगवन्नेकमेव विमुच्यतां किल्बिषादद्य भर्ता ।शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥ ८१ ॥
मार्कण्डेय उवाच ।श्रुत्वा वचः स मुनी राजपुत्र्यास्तथास्त्विति प्राह कुरुप्रवीर ।ततः स राजा मुदितो बभूव वाम्यौ चास्मै संप्रददौ प्रणम्य ॥ ८२ ॥
« »