Click on words to see what they mean.

देव उवाच ।कामं देवापि मां विप्र न विजानन्ति तत्त्वतः ।त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥ १ ॥
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः ।अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् ॥ २ ॥
आपो नारा इति प्रोक्ताः संज्ञानाम कृतं मया ।तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा ॥ ३ ॥
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः ।विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥ ४ ॥
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः ।अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ५ ॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः ।अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ६ ॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने ।सदिशं च नभः कायो वायुर्मनसि मे स्थितः ॥ ७ ॥
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः ।यजन्ते वेदविदुषो मां देवयजने स्थितम् ॥ ८ ॥
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः ।यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ॥ ९ ॥
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ।शेषो भूत्वाहमेवैतां धारयामि वसुंधराम् ॥ १० ॥
वाराहं रूपमास्थाय मयेयं जगती पुरा ।मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥ ११ ॥
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम ।पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् ॥ १२ ॥
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ।पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च ॥ १३ ॥
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः ।मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ १४ ॥
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः ।कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ॥ १५ ॥
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ।मामेव सततं विप्राश्चिन्तयन्त उपासते ॥ १६ ॥
अहं संवर्तको ज्योतिरहं संवर्तको यमः ।अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः ॥ १७ ॥
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ।मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥ १८ ॥
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् ।वसनं शयनं चैव निलयं चैव विद्धि मे ॥ १९ ॥
कामं क्रोधं च हर्षं च भयं मोहं तथैव च ।ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ॥ २० ॥
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् ।सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥ २१ ॥
मद्विधानेन विहिता मम देहविहारिणः ।मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः ॥ २२ ॥
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः ।शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥ २३ ॥
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः ।लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥ २४ ॥
तं मां महाफलं विद्धि पदं सुकृतकर्मणः ।दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् ॥ २५ ॥
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ २६ ॥
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ।राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥ २७ ॥
तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम् ।प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ॥ २८ ॥
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ।स्थावराणि च भूतानि संहराम्यात्ममायया ॥ २९ ॥
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ।प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् ॥ ३० ॥
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम ।रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥ ३१ ॥
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत ।अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः ।त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥ ३२ ॥
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः ।अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥ ३३ ॥
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै ।शमनं सर्वभूतानां सर्वलोककृतोद्यमम् ॥ ३४ ॥
एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम ।सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ३५ ॥
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ।सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥ ३६ ॥
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् ।विहितः सर्वथैवासौ ममात्मा मुनिसत्तम ॥ ३७ ॥
अर्धं मम शरीरस्य सर्वलोकपितामहः ।अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ३८ ॥
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् ।तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥ ३९ ॥
एवं सर्वमहं कालमिहासे मुनिसत्तम ।अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ ४० ॥
मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा ।असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ४१ ॥
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् ।विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥ ४२ ॥
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम ।दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥ ४३ ॥
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया ।आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः ॥ ४४ ॥
यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः ।तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् ॥ ४५ ॥
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे ।एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम ॥ ४६ ॥
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च ।लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥ ४७ ॥
मार्कण्डेय उवाच ।इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः ।प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः ॥ ४८ ॥
एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये ।आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर ॥ ४९ ॥
यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः ।स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥ ५० ॥
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् ।दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा ॥ ५१ ॥
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः ।आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥ ५२ ॥
एष धाता विधाता च संहर्ता चैव सात्वतः ।श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ॥ ५३ ॥
दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता ।आदिदेवमजं विष्णुं पुरुषं पीतवाससम् ॥ ५४ ॥
सर्वेषामेव भूतानां पिता माता च माधवः ।गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥ ५५ ॥
« »