Click on words to see what they mean.

वैशंपायन उवाच ।ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् ।पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ १ ॥
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।न चापीह समः कश्चिदायुषा तव विद्यते ।वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥ २ ॥
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ॥ ३ ॥
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ॥ ४ ॥
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ ५ ॥
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ ६ ॥
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी ।न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ ७ ॥
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥ ८ ॥
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ ९ ॥
शयानममितात्मानं पद्मे पद्मनिकेतनम् ।त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥ १० ॥
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम ।तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ॥ ११ ॥
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥ १२ ॥
मार्कण्डेय उवाच ।हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ।पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥ १३ ॥
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।एष कर्ता विकर्ता च सर्वभावनभूतकृत् ॥ १४ ॥
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् ।अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ॥ १५ ॥
एष कर्ता न क्रियते कारणं चापि पौरुषे ।यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ॥ १६ ॥
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ १७ ॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥ १८ ॥
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥ १९ ॥
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।तस्यापि द्विशती संध्या संध्यांशश्च ततः परम् ॥ २० ॥
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।तस्य वर्षशतं संध्या संध्यांशश्च ततः परम् ।संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय ॥ २१ ॥
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ।एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ॥ २२ ॥
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ।विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ।लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥ २३ ॥
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ २४ ॥
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा ।व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥ २५ ॥
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ॥ २६ ॥
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः ।ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ २७ ॥
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ।विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥ २८ ॥
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ।मिथ्यानुशासिनः पापा मृषावादपरायणाः ॥ २९ ॥
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ॥ ३० ॥
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ॥ ३१ ॥
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः ।अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ॥ ३२ ॥
बहुशून्या जनपदा मृगव्यालावृता दिशः ।युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ।भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ॥ ३३ ॥
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ।न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ।रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ ३४ ॥
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः ।मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ ३५ ॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ ३६ ॥
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप ।अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ ३७ ॥
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् ।नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ ३८ ॥
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ ३९ ॥
करभारभयात्पुंसो गृहस्थाः परिमोषकाः ।मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ॥ ४० ॥
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा ।अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ ४१ ॥
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः ।ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ ४२ ॥
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः ।आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ ४३ ॥
यथर्तुवर्षी भगवान्न तथा पाकशासनः ।न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ।अधर्मफलमत्यर्थं तदा भवति चानघ ॥ ४४ ॥
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः ।अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ॥ ४५ ॥
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ ४६ ॥
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥ ४७ ॥
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा ।दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ ४८ ॥
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत ।संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ॥ ४९ ॥
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ।हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ॥ ५० ॥
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा ।नगराणां विहारेषु चैत्येष्वपि च शेरते ॥ ५१ ॥
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ ५२ ॥
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा ।आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ ५३ ॥
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः ।तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ ५४ ॥
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् ।व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ ५५ ॥
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये ।अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ ५६ ॥
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च ।प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ ५७ ॥
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ ५८ ॥
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ ५९ ॥
ततः संवर्तको वह्निर्वायुना सह भारत ।लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ ६० ॥
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् ।देवदानवयक्षाणां भयं जनयते महत् ॥ ६१ ॥
निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह ।अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ ६२ ॥
ततो योजनविंशानां सहस्राणि शतानि च ।निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ ६३ ॥
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ ६४ ॥
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥ ६५ ॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः ।केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥ ६६ ॥
केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा ।केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ॥ ६७ ॥
केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः ।विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ॥ ६८ ॥
घोररूपा महाराज घोरस्वननिनादिताः ।ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ॥ ६९ ॥
तैरियं पृथिवी सर्वा सपर्वतवनाकरा ।आपूर्यते महाराज सलिलौघपरिप्लुता ॥ ७० ॥
ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ ७१ ॥
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् ।सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ॥ ७२ ॥
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे ।धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥ ७३ ॥
ततः समुद्रः स्वां वेलामतिक्रामति भारत ।पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ॥ ७४ ॥
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ ७५ ॥
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप ।आदिपद्मालयो देवः पीत्वा स्वपिति भारत ॥ ७६ ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥ ७७ ॥
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ॥ ७८ ॥
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ॥ ७९ ॥
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप ।श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ॥ ८० ॥
ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे ।न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥ ८१ ॥
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ ८२ ॥
उपविष्टं महाराज पूर्णेन्दुसदृशाननम् ।फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥ ८३ ॥
ततो मे पृथिवीपाल विस्मयः सुमहानभूत् ।कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ ८४ ॥
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ॥ ८५ ॥
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः ।साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ॥ ८६ ॥
ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ ८७ ॥
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ॥ ८८ ॥
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम ।आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ॥ ८९ ॥
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम ।निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥ ९० ॥
ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ॥ ९१ ॥
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ ९२ ॥
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ ९३ ॥
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ ९४ ॥
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् ।सुवेणां कृष्णवेणां च इरामां च महानदीम् ।शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ॥ ९५ ॥
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ ९६ ॥
ततः समुद्रं पश्यामि यादोगणनिषेवितम् ।रत्नाकरममित्रघ्न निधानं पयसो महत् ॥ ९७ ॥
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ।पश्यामि च महीं राजन्काननैरुपशोभिताम् ॥ ९८ ॥
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः ।क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ॥ ९९ ॥
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ १०० ॥
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ १०१ ॥
निषधं चापि पश्यामि श्वेतं च रजताचितम् ।पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ १०२ ॥
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।पश्यामि च महाराज मेरुं कनकपर्वतम् ॥ १०३ ॥
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ १०४ ॥
एते चान्ये च बहवो यावन्तः पृथिवीधराः ।तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ॥ १०५ ॥
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप ।पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ।तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ १०६ ॥
कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः ।शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ॥ १०७ ॥
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते ।दैत्यदानवसंघांश्च कालेयांश्च नराधिप ।सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ॥ १०८ ॥
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ।तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ।फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ॥ १०९ ॥
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् ।न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ॥ ११० ॥
सततं धावमानश्च चिन्तयानो विशां पते ।आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ १११ ॥
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा ।वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ ११२ ॥
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ ११३ ॥
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते ।आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ ११४ ॥
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् ।आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ ११५ ॥
ततो मामब्रवीद्वीर स बालः प्रहसन्निव ।श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ ११६ ॥
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम ।उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ॥ ११७ ॥
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ॥ ११८ ॥
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ ।सुजातौ मृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ ११९ ॥
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ ।दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ॥ १२० ॥
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च ।दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ १२१ ॥
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् ।ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ॥ १२२ ॥
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव ।दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ॥ १२३ ॥
तव देव शरीरस्था देवदानवराक्षसाः ।यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥ १२४ ॥
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।द्रुतमन्तः शरीरे ते सततं परिधावतः ॥ १२५ ॥
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित ।इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ॥ १२६ ॥
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ १२७ ॥
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया ।त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ।महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ १२८ ॥
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः ।सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ॥ १२९ ॥
« »