Click on words to see what they mean.

वैशंपायन उवाच ।ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।कथयस्वेह चरितं मनोर्वैवस्वतस्य मे ॥ १ ॥
मार्कण्डेय उवाच ।विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् ।बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ २ ॥
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः ।अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥ ३ ॥
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।एकपादस्थितस्तीव्रं चचार सुमहत्तपः ॥ ४ ॥
अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ ५ ॥
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ ६ ॥
भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम ।मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ ७ ॥
दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः ।भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी ॥ ८ ॥
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥ ९ ॥
स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः ।मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ १० ॥
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् ॥ ११ ॥
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥ १२ ॥
अथ कालेन महता स मत्स्यः सुमहानभूत् ।अलिञ्जरे जले चैव नासौ समभवत्किल ॥ १३ ॥
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥ १४ ॥
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः ।तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ १५ ॥
तत्र तं प्राक्षिपच्चापि मनुः परपुरंजय ।अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ १६ ॥
द्वियोजनायता वापी विस्तृता चापि योजनम् ।तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ।विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते ॥ १७ ॥
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ।नय मां भगवन्साधो समुद्रमहिषीं प्रभो ।गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे ॥ १८ ॥
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः ॥ १९ ॥
स तत्र ववृधे मत्स्यः किंचित्कालमरिंदम ।ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ २० ॥
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ २१ ॥
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥ २२ ॥
सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा ।आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ २३ ॥
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा ।तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ २४ ॥
भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः ।प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ २५ ॥
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् ।सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥ २६ ॥
संप्रक्षालनकालोऽयं लोकानां समुपस्थितः ।तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥ २७ ॥
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति ।तस्य सर्वस्य संप्राप्तः कालः परमदारुणः ॥ २८ ॥
नौश्च कारयितव्या ते दृढा युक्तवटाकरा ।तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ २९ ॥
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥ ३० ॥
नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय ।आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ ३१ ॥
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् ।नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो ॥ ३२ ॥
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत ।जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ ३३ ॥
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह ।बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा ।नावा तु शुभया वीर महोर्मिणमरिंदम ॥ ३४ ॥
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते ।स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय ।शृङ्गी तत्राजगामाशु तदा भरतसत्तम ॥ ३५ ॥
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे ।शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ ३६ ॥
वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि ।मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् ॥ ३७ ॥
संयतस्तेन पाशेन मत्स्यः परपुरंजय ।वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ ३८ ॥
स ततार तया नावा समुद्रं मनुजेश्वर ।नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥ ३९ ॥
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ ।घूर्णते चपलेव स्त्री मत्ता परपुरंजय ॥ ४० ॥
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे ।सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुंगव ॥ ४१ ॥
एवंभूते तदा लोके संकुले भरतर्षभ ।अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह ॥ ४२ ॥
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः ।चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये ॥ ४३ ॥
ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ ।तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ ४४ ॥
ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः ।अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ ४५ ॥
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ ।नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ ४६ ॥
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् ।ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥ ४७ ॥
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा ।अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥ ४८ ॥
मनुना च प्रजाः सर्वाः सदेवासुरमानवाः ।स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥ ४९ ॥
तपसा चातितीव्रेण प्रतिभास्य भविष्यति ।मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति ॥ ५० ॥
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ।स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ।प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ ५१ ॥
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे ।सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ ५२ ॥
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् ।आख्यानमिदमाख्यातं सर्वपापहरं मया ॥ ५३ ॥
य इदं शृणुयान्नित्यं मनोश्चरितमादितः ।स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः ॥ ५४ ॥
« »