Click on words to see what they mean.

मार्कण्डेय उवाच ।अत्रैव च सरस्वत्या गीतं परपुरंजय ।पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ १ ॥
तार्क्ष्य उवाच ।किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् ।आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ॥ २ ॥
कथं चाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् ।एतत्सर्वं सुभगे प्रब्रवीहि यथा लोकान्विरजाः संचरेयम् ॥ ३ ॥
मार्कण्डेय उवाच ।एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् ।तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥ ४ ॥
सरस्वत्युवाच ।यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः ।स वै पुरो देवपुरस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ ५ ॥
तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः ।अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥ ६ ॥
तासां तीरेष्वासते पुण्यकर्मा महीयमानः पृथगप्सरोभिः ।सुपुण्यगन्धाभिरलंकृताभिर्हिरण्यवर्णाभिरतीव हृष्टः ॥ ७ ॥
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति ।वासो दत्त्वा चन्द्रमसः स लोकं दत्त्वा हिरण्यममृतत्वमेति ॥ ८ ॥
धेनुं दत्त्वा सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च ।यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥ ९ ॥
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।धुरंधरं बलवन्तं युवानं प्राप्नोति लोकान्दश धेनुदस्य ॥ १० ॥
यः सप्त वर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ सुव्रतः साधुशीलः ।सप्तावरान्सप्त पूर्वान्पुनाति पितामहानात्मनः कर्मभिः स्वैः ॥ ११ ॥
तार्क्ष्य उवाच ।किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चारुरूपे ।त्वयानुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥ १२ ॥
सरस्वत्युवाच ।न चाशुचिर्नाप्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् ।बुभुक्षवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ १३ ॥
नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं परा सिञ्चति तादृशो हि ।अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥ १४ ॥
कृशानुं ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च ।गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥ १५ ॥
तार्क्ष्य उवाच ।क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतिप्रविष्टाम् ।प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे ॥ १६ ॥
सरस्वत्युवाच ।अग्निहोत्रादहमभ्यागतास्मि विप्रर्षभाणां संशयच्छेदनाय ।त्वत्संयोगादहमेतदब्रुवं भावे स्थिता तथ्यमर्थं यथावत् ॥ १७ ॥
तार्क्ष्य उवाच ।न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः ।रूपं च ते दिव्यमत्यन्तकान्तं प्रज्ञां च देवीं सुभगे बिभर्षि ॥ १८ ॥
सरस्वत्युवाच ।श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति ।तैरेवाहं संप्रवृद्धा भवामि आप्यायिता रूपवती च विप्र ॥ १९ ॥
यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा ।दिव्येन रूपेण च प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन् ॥ २० ॥
तार्क्ष्य उवाच ।इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः संप्रतीताः ।आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः ॥ २१ ॥
सरस्वत्युवाच ।तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् ।स्वाध्यायदानव्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥ २२ ॥
तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति ।तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणा रमण्यः ॥ २३ ॥
शाखां शाखां महानद्यः संयान्ति सिकतासमाः ।धानापूपा मांसशाकाः सदा पायसकर्दमाः ॥ २४ ॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः ।ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥ २५ ॥
« »