Click on words to see what they mean.

वैशंपायन उवाच ।युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् ।दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १ ॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २ ॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३ ॥
युधिष्ठिर उवाच ।देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४ ॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजंगम ।किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५ ॥
सर्प उवाच ।नहुषो नाम राजाहमासं पूर्वस्तवानघ ।प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥ ६ ॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७ ॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८ ॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् ।इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९ ॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव ।तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १० ॥
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव ।नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११ ॥
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम ।अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२ ॥
युधिष्ठिर उवाच ।ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजंगम ॥ १३ ॥
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४ ॥
सर्प उवाच ।ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर ।ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५ ॥
युधिष्ठिर उवाच ।सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा ।दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६ ॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् ।यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७ ॥
सर्प उवाच ।चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह ।शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ।आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८ ॥
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप ।ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९ ॥
युधिष्ठिर उवाच ।शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २० ॥
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१ ॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह ।ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ २२ ॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते ।यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३ ॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् ।एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४ ॥
सर्प उवाच ।यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते ॥ २५ ॥
युधिष्ठिर उवाच ।जातिरत्र महासर्प मनुष्यत्वे महामते ।संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६ ॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७ ॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि ।तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८ ॥
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते ।तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९ ॥
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते ।अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३० ॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते ।संकरस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१ ॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२ ॥
सर्प उवाच ।श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३ ॥
« »