Click on words to see what they mean.

युधिष्ठिर उवाच ।भवानेतादृशो लोके वेदवेदाङ्गपारगः ।ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १ ॥
सर्प उवाच ।पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २ ॥
युधिष्ठिर उवाच ।दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते ।अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३ ॥
सर्प उवाच ।दाने रतत्वं सत्यं च अहिंसा प्रियमेव च ।एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४ ॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते ।सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५ ॥
एवमेव महेष्वास प्रियवाक्यान्महीपते ।अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ६ ॥
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ७ ॥
युधिष्ठिर उवाच ।कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८ ॥
सर्प उवाच ।तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९ ॥
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः ।अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १० ॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११ ॥
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः ।मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२ ॥
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते ।गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते ॥ १३ ॥
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् ।नित्ये महति चात्मानमवस्थापयते नृप ॥ १४ ॥
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् ।फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ १५ ॥
युधिष्ठिर उवाच ।शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् ॥ १६ ॥
किं न गृह्णासि विषयान्युगपत्त्वं महामते ।एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७ ॥
सर्प उवाच ।यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८ ॥
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ ।तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९ ॥
मनसा तात पर्येति क्रमशो विषयानिमान् ।विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २० ॥
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते ।तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१ ॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ २२ ॥
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३ ॥
युधिष्ठिर उवाच ।मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४ ॥
सर्प उवाच ।बुद्धिरात्मानुगा तात उत्पातेन विधीयते ।तदाश्रिता हि संज्ञैषा विधिस्तस्यैषणे भवेत् ॥ २५ ॥
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् ।बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६ ॥
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् ।त्वमप्यत्राभिसंबुद्धः कथं वा मन्यते भवान् ॥ २७ ॥
युधिष्ठिर उवाच ।अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव ।विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८ ॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९ ॥
सर्प उवाच ।सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३० ॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम् ॥ ३१ ॥
कृतं कार्यं महाराज त्वया मम परंतप ।क्षीणः शापः सुकृच्छ्रो मे त्वया संभाष्य साधुना ॥ ३२ ॥
अहं हि दिवि दिव्येन विमानेन चरन्पुरा ।अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम् ॥ ३३ ॥
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिंनराः ।करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४ ॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५ ॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम ।स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३६ ॥
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः ।अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७ ॥
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः ।प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥ ३८ ॥
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।अज्ञानात्संप्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९ ॥
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः ।युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४० ॥
अभिमानस्य घोरस्य बलस्य च नराधिप ।फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१ ॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२ ॥
सत्यं दमस्तपो योगमहिंसा दाननित्यता ।साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ ४३ ॥
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः ।स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४ ॥
वैशंपायन उवाच ।इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः ।दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५ ॥
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन संगतः ।धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६ ॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७ ॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८ ॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९ ॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् ।हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५० ॥
« »