Click on words to see what they mean.

वैशंपायन उवाच ।स भीमसेनस्तेजस्वी तथा सर्पवशं गतः ।चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ १ ॥
उवाच च महासर्पं कामया ब्रूहि पन्नग ।कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥ २ ॥
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ ३ ॥
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।समागताश्च बहुशो निहताश्च मया मृधे ॥ ४ ॥
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः ।भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥ ५ ॥
किं नु विद्याबलं किं वा वरदानमथो तव ।उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥ ६ ॥
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः ।यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ ७ ॥
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ॥ ८ ॥
निगृह्य तं महाबाहुं ततः स भुजगस्तदा ।विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ ९ ॥
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥ १० ॥
यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम ।तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥ ११ ॥
इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम् ।शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥ १२ ॥
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥ १३ ॥
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च ।इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ १४ ॥
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ १५ ॥
न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः ।गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥ १६ ॥
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ १७ ॥
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ १८ ॥
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः ।मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ १९ ॥
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ २० ॥
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् ।स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ २१ ॥
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः ।सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ २२ ॥
इति चाप्यहमश्रौषं वचस्तेषां दयावताम् ।मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ २३ ॥
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥ २४ ॥
तमुवाच महाबाहुर्भीमसेनो भुजंगमम् ।न ते कुप्ये महासर्प न चात्मानं विगर्हये ॥ २५ ॥
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥ २६ ॥
दैवं पुरुषकारेण को निवर्तितुमर्हति ।दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥ २७ ॥
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥ २८ ॥
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् ।यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ २९ ॥
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः ।मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥ ३० ॥
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः ।धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ ३१ ॥
अथ वा नार्जुनो धीमान्विषादमुपयास्यति ।सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ ३२ ॥
समर्थः स महाबाहुरेकाह्ना सुमहाबलः ।देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥ ३३ ॥
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् ।विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ॥ ३४ ॥
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ ३५ ॥
कथं नु तस्यानाथाया मद्विनाशाद्भुजंगम ।अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥ ३६ ॥
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ ।मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥ ३७ ॥
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ ।मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥ ३८ ॥
एवंविधं बहु तदा विललाप वृकोदरः ।भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ ३९ ॥
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः ।अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ ४० ॥
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ ४१ ॥
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ॥ ४२ ॥
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः ।अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ ४३ ॥
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति ।मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ॥ ४४ ॥
हृदयं चरणश्चापि वामोऽस्य परिवर्तते ।सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥ ४५ ॥
स धर्मराजो मेधावी शङ्कमानो महद्भयम् ।द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥ ४६ ॥
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ ४७ ॥
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् ।नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥ ४८ ॥
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ ४९ ॥
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः ।ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥ ५० ॥
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥ ५१ ॥
« »