Click on words to see what they mean.

अर्जुन उवाच ।अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् ॥ १ ॥
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः ।अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् ॥ २ ॥
ततो निवातकवचा वध्यमाना मया युधि ।संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥ ३ ॥
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ ४ ॥
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च ।कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥ ५ ॥
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् ।उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥ ६ ॥
ततो निवातकवचा व्योम संछाद्य केवलम् ।अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ ७ ॥
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ ।न्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥ ८ ॥
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः ।सर्वतो मामचिन्वन्त सरथं धरणीधरैः ॥ ९ ॥
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः ।स देशो यत्र वर्ताम गुहेव समपद्यत ॥ १० ॥
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः ।अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ ११ ॥
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् ।अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥ १२ ॥
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥ १३ ॥
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् ॥ १४ ॥
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् ।ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥ १५ ॥
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः ।इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ १६ ॥
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः ।अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥ १७ ॥
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः ।समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ १८ ॥
न हयानां क्षतिः काचिन्न रथस्य न मातलेः ।मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥ १९ ॥
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत ।नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ २० ॥
हतेष्वसुरसंघेषु दारास्तेषां तु सर्वशः ।प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ २१ ॥
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् ।त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ २२ ॥
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् ।रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥ २३ ॥
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ २४ ॥
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ २५ ॥
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ २६ ॥
इदमेवंविधं कस्माद्देवता नाविशन्त्युत ।पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥ २७ ॥
मातलिरुवाच ।आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ २८ ॥
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ २९ ॥
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः ।विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ ३० ॥
तत उक्तो भगवता दिष्टमत्रेति वासवः ।भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् ॥ ३१ ॥
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ ३२ ॥
कालस्य परिणामेन ततस्त्वमिह भारत ।एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ ३३ ॥
दानवानां विनाशार्थं महास्त्राणां महद्बलम् ।ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ ३४ ॥
अर्जुन उवाच ।ततः प्रविश्य नगरं दानवांश्च निहत्य तान् ।पुनर्मातलिना सार्धमगच्छं देवसद्म तत् ॥ ३५ ॥
« »