Click on words to see what they mean.

अर्जुन उवाच ।निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।पुरं कामचरं दिव्यं पावकार्कसमप्रभम् ॥ १ ॥
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः ।पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥ २ ॥
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ।द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् ॥ ३ ॥
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ।असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ ४ ॥
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् ।अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥ ५ ॥
मातलिरुवाच ।पुलोमा नाम दैतेयी कालका च महासुरी ।दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ।तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ॥ ६ ॥
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ।अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ॥ ७ ॥
रमणीयं पुरं चेदं खचरं सुकृतप्रभम् ।सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥ ८ ॥
सर्वकामगुणोपेतं वीतशोकमनामयम् ।ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् ॥ ९ ॥
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् ।पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ १० ॥
हिरण्यपुरमित्येतत्ख्यायते नगरं महत् ।रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥ ११ ॥
त एते मुदिता नित्यमवध्याः सर्वदैवतैः ।निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ।मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ १२ ॥
अर्जुन उवाच ।सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो ।अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ १३ ॥
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ १४ ॥
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ १५ ॥
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ १६ ॥
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः ।अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ १७ ॥
तदहं चास्त्रवर्षेण महता प्रत्यवारयम् ।शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ १८ ॥
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ १९ ॥
तेषामहं विमूढानामन्योन्यमभिधावताम् ।शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसंघशः ॥ २० ॥
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ २१ ॥
ततोऽहं शरवर्षेण महता प्रत्यवारयम् ।मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ २२ ॥
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ २३ ॥
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते ।पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति ॥ २४ ॥
अमरावतिसंकाशं पुरं कामगमं तु तत् ।अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप ॥ २५ ॥
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च ।न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ ॥ २६ ॥
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ २७ ॥
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ २८ ॥
ततो मातलिरप्याशु पुरस्तान्निपतन्निव ।महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ २९ ॥
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥ ३० ॥
तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः ।ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ॥ ३१ ॥
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै ।ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् ॥ ३२ ॥
ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् ।अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव ॥ ३३ ॥
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः ।प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥ ३४ ॥
विचित्रमुकुटापीडा विचित्रकवचध्वजाः ।विचित्राभरणाश्चैव नन्दयन्तीव मे मनः ॥ ३५ ॥
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे ।नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् ॥ ३६ ॥
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि ।व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम ॥ ३७ ॥
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे ।स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् ।यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ ३८ ॥
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् ।लेलिहानैर्महानागैः कृतशीर्षममित्रहन् ॥ ३९ ॥
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् ।दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ ४० ॥
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे ।मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ ४१ ॥
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।मृगाणामथ सिंहानां व्याघ्राणां च विशां पते ।ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥ ४२ ॥
गजानां सृमराणां च शरभाणां च सर्वशः ।ऋषभाणां वराहाणां मार्जाराणां तथैव च ।शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ॥ ४३ ॥
गृध्राणां गरुडानां च मकराणां तथैव च ।पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ ४४ ॥
गुह्यकानां च संग्रामे नैरृतानां तथैव च ।झषाणां गजवक्त्राणामुलूकानां तथैव च ॥ ४५ ॥
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् ।तथैव यातु धानानां गदामुद्गरधारिणाम् ॥ ४६ ॥
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा ।सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ ४७ ॥
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः ।अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः ।अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ॥ ४८ ॥
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ।अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः ।न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ ४९ ॥
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् ।दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ ५० ॥
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् ।निशाम्य परमं हर्षमगमद्देवसारथिः ॥ ५१ ॥
तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ ५२ ॥
उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः ।सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ।न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः ॥ ५३ ॥
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् ।त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् ॥ ५४ ॥
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च ।विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ ५५ ॥
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः ।पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ॥ ५६ ॥
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः ।उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः ॥ ५७ ॥
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् ।न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ ५८ ॥
गन्धर्वनगराकारं हतनागमिव ह्रदम् ।शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ ५९ ॥
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् ।देवराजस्य भवनं कृतकर्माणमाहवात् ॥ ६० ॥
हिरण्यपुरमारुज्य निहत्य च महासुरान् ।निवातकवचांश्चैव ततोऽहं शक्रमागमम् ॥ ६१ ॥
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् ।सर्वं विश्रावयामास यथा भूतं महाद्युते ॥ ६२ ॥
हिरण्यपुरघातं च मायानां च निवारणम् ।निवातकवचानां च वधं संख्ये महौजसाम् ॥ ६३ ॥
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः ।मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् ॥ ६४ ॥
ततो मां देवराजो वै समाश्वास्य पुनः पुनः ।अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः ॥ ६५ ॥
अतिदेवासुरं कर्म कृतमेतत्त्वया रणे ।गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम ॥ ६६ ॥
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय ।असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ ६७ ॥
अविषह्यो रणे हि त्वं देवदानवराक्षसैः ।सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ ६८ ॥
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् ।पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ ६९ ॥
« »