Click on words to see what they mean.

अर्जुन उवाच ।ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः ।नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् ॥ १ ॥
तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः ।अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥ २ ॥
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत ।तत्राश्मचूर्णमपतत्पावकप्रकरा इव ॥ ३ ॥
ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् ।धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ॥ ४ ॥
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ ५ ॥
धाराणां च निपातेन वायोर्विस्फूर्जितेन च ।गर्जितेन च दैत्यानां न प्राज्ञायत किंचन ॥ ६ ॥
धारा दिवि च संबद्धा वसुधायां च सर्वशः ।व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ॥ ७ ॥
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् ॥ ८ ॥
हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते ।मुमुचुर्दानवा मायामग्निं वायुं च मानद ॥ ९ ॥
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।शैलेन च महास्त्रेण वायोर्वेगमधारयम् ॥ १० ॥
तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः ।प्राकुर्वन्विविधा माया यौगपद्येन भारत ॥ ११ ॥
ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् ।अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् ॥ १२ ॥
सा तु मायामयी वृष्टिः पीडयामास मां युधि ।अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥ १३ ॥
तमसा संवृते लोके घोरेण परुषेण च ।तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥ १४ ॥
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि ।असकृच्चाह मां भीतः क्वासीति भरतर्षभ ॥ १५ ॥
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि ।स च मां विगतज्ञानः संत्रस्त इदमब्रवीत् ॥ १६ ॥
सुराणामसुराणां च संग्रामः सुमहानभूत् ।अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ ॥ १७ ॥
शम्बरस्य वधे चापि संग्रामः सुमहानभूत् ।सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥ १८ ॥
तथैव वृत्रस्य वधे संगृहीता हया मया ।वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥ १९ ॥
एते मया महाघोराः संग्रामाः पर्युपासिताः ।न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव ॥ २० ॥
पितामहेन संहारः प्रजानां विहितो ध्रुवम् ।न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥ २१ ॥
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।मोहयिष्यन्दानवानामहं मायामयं बलम् ॥ २२ ॥
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् ।अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च ॥ २३ ॥
अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् ।विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ॥ २४ ॥
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप ।मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् ॥ २५ ॥
पीड्यमानासु मायासु तासु तास्वसुरेश्वराः ।पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥ २६ ॥
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति ॥ २७ ॥
सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः ।व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे ॥ २८ ॥
ततः पर्यपतन्नुग्रा निवातकवचा मयि ।तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ॥ २९ ॥
वर्तमाने तथा युद्धे निवातकवचान्तके ।नापश्यं सहसा सर्वान्दानवान्माययावृतान् ॥ ३० ॥
« »